Thursday, December 16, 2021

Elephant - Sanskrit article

भोः! भवन्तोऽपि सर्वे गजं दृष्टवन्तः स्युः। अहमपि दृष्टवान्। 
एवं दृश्यं प्रायः ग्रामेषु दृश्यते। 

यदि कश्चन गजः ग्रामम् आगच्छेत् तर्हि ग्रामस्य सर्वे वयोवृद्धाः श्रद्धालवः च तस्य पुरतः हस्तौ योजयित्वा तं प्रणमन्ति। वृद्धाः बालान् वदन्ति एषः भगवान् गणेशः, तं नमत इति। 
ग्रामवासिषु इत्येवं भावना विद्यते। 

परन्तु एका समस्या भवति यद् गजं दृष्ट्वा ग्रामे ये कुक्कुराः भवन्ति ते सर्वे तस्य पृष्ठतः आगत्य बुक्कन्ति!

अर्थात् गजस्य यावती श्रद्धा मनुष्यैः क्रियते तावान् विरोधः तस्य कुक्कुरैः क्रियते। 

किं तस्य कारणं स्यात्? 
ते अस्माकं भाषां न अवगच्छन्ति , वयं च तेषां भाषां न अवगच्छामः। 
यदि ते अस्माकं भाषाम् अज्ञास्यन् तर्हि निश्चयेन वयं तान् अप्रक्ष्याम यत् किमर्थं गजं दृष्ट्वा भवन्तः बुक्कन्ति! यतः गजेन सह भवताम् उपमा न भवति कदाचित्। तेन सह भवतां शत्रुता अपि न दृश्यते। तेन च सह भवतां का समस्या? इति। 

एवं पृष्टे सति ते निश्चयेन तदेव उत्तरम् अदास्यन् यत् गजेन सह अस्माकं नास्ति कापि शत्रुता! परन्तु तस्य पुरतः हस्तौ योजयित्वा जनाः तं प्रणमन्ति! वस्तुतः तद् दृष्ट्वा वयं न सहामहे इति। 

अर्थात् समाजे यस्य यावान् सम्मानः भवति तावान् विरोधः अपि भवति। यस्य स्तुतिः भवति तस्य निन्दा अपि भवति इति ज्ञातव्यम्। 

एतदपि ज्ञातव्यं यद् यस्य जीवने निन्दा स्तुतिः च समाने भवतः सः ज्ञानवान् पुरुषो हि लक्ष्यं प्रति निरन्तरम् अग्रे सरति।
स्वामी श्री राजेशवरानन्दमहाराजः।

No comments:

Post a Comment