*कुम्भमेलायां नग्नसाधुना सह कथोपकथनस्य द्वितीयो भागः।*
प्रश्नः - कुम्भमेलायां नग्नसाधवः किमर्थं सर्वप्रथमं स्नानं कुर्वन्ति?
साधुः - सैनिकाः प्रथमं गत्वा मार्गे सङ्कटः अस्ति वा न वा इति पश्यन्ति। अनन्तरं ते अन्यान् सूचयन्ति।
प्रश्नः - श्रूयते यद् भवान् पूर्वं तन्त्रांश-अभियन्ता आसीत् विदेशीयसंस्थायाम्!
उत्तमा वृत्तिः, महद् धनम्। तत् सर्वं किमर्थं त्यक्तवान्?
साधुः - वेतनं दशसहस्रं वा भवतु एकलक्षं वा भवतु, जीवनं तु तदेव।
प्रतिदिनं प्रातःकाले उत्थाय प्रातराशं स्वीकृत्य कार्यालयस्य गमनम्, आदिनं कार्यं कृत्वा सायङ्काले गृहं प्रति प्रत्यागमनम्। चायं पीत्वा पीत्वा दूरदर्शनस्य दर्शनम्, अनन्तरं रात्रिभोजनम् , ततः परं निद्रा।
सहसा मम मनसि चिन्ता अभवत् यद् एतत् किं जीवनम्! अर्थहीनं जीवनम्!
एकदा गङ्गासागरे एकेन नग्नसाधुना सह मम मेलनम् अभवत्। तेषाम् आश्रममपि गतवान्। एकवर्षानन्तरं वृत्तिं त्यक्त्वा अहं तैः साधुभिः सह संयुक्तः अभवम्।
प्रश्नः - साधुः भूत्वा किं प्राप्तवान्?
साधुः - आत्मनि स्थिरसत्तां प्राप्तवान्। जगतः जीवनस्य च तात्पर्यम् अन्विष्य प्राप्तवान्।
प्रश्नः - भवतः साधनायाः मार्गः कः?
साधुः - नग्नसाधवः सर्वे ज्ञानमार्गस्य साधकाः। शिवोपासकाः।
प्रश्नः - कुम्भमेलायाः समाप्तेः परं किं भवान् आश्रमं प्रति गमिष्यति उत अन्यत्र कुत्रापि गमिष्यति?
साधुः - आश्रमं गमिष्यामि। वर्षे एकवारं तीर्थयात्रां कुर्मः। मासत्रयं यावद् आश्रमात् बहिः तिष्ठामः।
अस्मिन् वर्षे कुम्भमेलायाम् अस्मि। गतवर्षे परशुरामकुण्डम् अगच्छम्। (असम-अरुणाचलराज्ययोः सीमायाम्)
साधवः एवमेव सर्वत्र भ्रमन्ति।
प्रश्नः - भवन्तः तु कदापि रेलयाने बसयाने वा न दृश्यन्ते। तर्हि कथं भवन्तः इतस्ततः भ्रमन्ति?
साधुः - वयं पादाभ्यां हि सर्वत्र भ्रमामः।
प्रश्नः - भवान् तु उच्चशिक्षितः अभियन्ता च। निरक्षरैः नग्नसाधुभिः सह स्थित्वा भवान् कथम् अनुभवति? कापि समस्या न भवति?
साधुः - भवन्तः मन्ये न जानन्ति यद् बहवः साधवः सन्ति समाजे। ते सर्वेऽपि उच्चशिक्षिताः। अस्माकम् आश्रमे हि सन्ति बहवः। तेषु प्राक्तन आई ए एस् अधिकारी, वैमानिकः अभिनेता च सन्ति।
पुनश्च एका कथा यत् कश्चन उच्चशिक्षितः वा भवतु निरक्षरः वा भवतु, परन्तु सः उत्तममनुष्यः उत न इत्येव ज्ञातव्यम्।
*-प्रदीपः!*
No comments:
Post a Comment