*केनचिद् एकेन नग्नसाधुना सह कस्यचन कथोपकथनम्।*
अस्माकं भारतदेशे बहवः साधवः सन्ति। तेषु नग्नसाधवः अपि केचन विशिष्टाः साधवः भवन्ति।
कुम्भमेलायां केनचिद् एकेन साधुना कस्यचन साक्षात्कारः।
तदानीं सः ध्यानं कुर्वन् आसीत्।
प्रश्नः - हे महाराज! भवतः आश्रमः कुत्र?
साधुः - उत्तरकाश्याः समीपे हिमालये।
प्रश्नः - तस्मिन् आश्रमे कति साधवः तिष्ठन्ति? मन्दिरमपि अस्ति?
साधुः - वयम् ऊनविंशतिसाधवः तत्र तिष्ठामः। मन्दिरं नास्ति।तत्र प्रकाण्डं शिवलिङ्गम् अस्ति, तस्य पुरतः उपविश्य वयं ध्यानं कुर्मः।
प्रश्नः - भवतां दिनानि कथं व्यतीतानि भवन्ति?
साधुः - ब्रह्ममुहूर्ते उत्थाय स्नानं कुर्मः। तदनन्तरं ध्यानं कृत्वा घण्टात्रयं यावत् पुस्तकं पठामः।
मध्याह्नभोजनात् परं घण्टां यावत् विश्रम्य पुनः ध्यानं कुर्मः।
अपराह्णे किञ्चिद् अटित्वा पुनः सायङ्काले आरतिः ध्यानं च।
प्रश्नः - प्रातःकाले किं भवन्तः भिक्षाटनं न कुर्वन्ति?
साधुः - वयं भिक्षां न कुर्मः। ईश्वरकृपया यत् प्राप्नुमः तदेव खादामः।
केचन जनाः समितिः च अस्मभ्यं भोजनं ददति, तेन प्रचलति। दिने एकवारं हि भक्षामः।
प्रश्नः - किं भवन्तः पर्यङ्के स्वपन्ति? शरीरे कम्बलं धरन्ति?
साधुः - नैव। वयं भूमौ स्वपिमः , कम्बलस्य उपयोगमपि न कुर्मः। शीतः अनुभूयते चेत् शरीरे भस्मं लिम्पामः।
प्रश्नः - एतावती कठोरता किमर्थम्? भवन्तस्तु शरीराय महत् कष्टं ददति।
साधुः - एतन्न कष्टम्, इयमेव साधना। देहस्य उपरि मनसः विजयः। जडस्य उपरि चेतनायाः आधिपत्यम्।
प्रश्नः - भवन्तः केवलं ध्यानमेव कुर्वन्ति! समाजसेवा किमर्थं न क्रियते? अस्मिन् कलियुगे मनुष्याणाम् एतावद् दुःखं कष्टं च।
साधुः - भोः! भवान् कञ्चन वैज्ञानिकं वक्तुं शक्नुयात् यत् सः परीक्षणशालातः बहिरागत्य जनसेवां कुर्यात्?
अस्मिन् संसारे कोटिशः साधवः जपं ध्यानं च कुर्वन्ति, तेषां दिव्यतरङ्गः सूक्ष्मरूपेण समाजस्य कल्याणं करोति।
प्रश्नः - भवन्तः सर्वे शस्त्रं किमर्थं धरन्ति?
साधुः - विद्यारण्यमुनिः मुगलाक्रमणकारिभ्यः हिन्धून् रक्षितुं नग्नसाधूनां सङ्घटनमेकं निर्मितवान्।
वयं तस्य सङ्घटनस्य सैनिकाः, अतः अस्माकं हस्ते खड्गं त्रिशूलं शस्त्रं च इत्यादिकं भवति।
*सन्देशोऽयं महान् दीर्घः, अतः अद्य अत्रैव समाप्यते।*
*-प्रदीपः!*
No comments:
Post a Comment