कश्चन पुरुषः केनचिद् बालकेन सह केशकर्तनाय नापितस्य आपणम् गतवान्।
तत्र गत्वा आदौ तस्य केशान् अकर्तयत्।
अनन्तरं सः नापितम् अवदत् भोः! एषः मम पुत्रः! तस्यापि केशान् सम्यक् कर्तयतु।
तावता अहं ताम्बूलं खादित्वा आगमिष्यामि इति।
नापितः बालकस्यापि सम्यक् केशान् अकर्तयत्, किन्तु तावत् पर्यन्तं सः पुरुषः ताम्बूलं खादित्वा न आगच्छत्।
नापितः तदा बालकम् अपृच्छत् किं भोः! तव पिता इदानीमपि किमर्थं न आगच्छति?
बालकः तदा अवदत् महोदय! सः मम पिता नास्ति। अहं मार्गे क्रीडन् आसम्। सः मां दृष्ट्वा अवदत् भोः बालक! धनेन विना तव केशान् कर्तयिष्यसि चेद् मया सह आगच्छ इति।
अतः अहं तेन सह आगतवान्।
*-प्रदीपः!*
No comments:
Post a Comment