Wednesday, September 22, 2021

Soorya charitam- Sanskrit poem

।।श्रीसूर्यचरितम् ।।
*************
विश्वात्मा ननु सूर्य एव सकलो ब्रह्मादिदेवस्तु यः 
आकाशे सरतीति सूर्यविमलो भास्वान् विवस्वान्हि सः ।
मार्तण्डो मिहिरो विरोचनसुरो यो द्वादशात्मा सदा 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।१।।
**********************
पुत्रो यस्त्वदितेश्च काश्यपवरः पत्न्यः चतस्रस्तथा 
संज्ञा या प्रथमा तथा हि सवितू राज्ञी द्वितीया यथा ।
तस्यैवं च तृतीयका शुभकरा भार्या प्रभा सा तथा 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।२।।
**********************
छाया या च चतुर्थिका गृहपतेर्भार्या तु वै विद्यते 
सावर्णश्च शनिश्च पुत्रकवरौ नासत्यदस्रौ तथा ।
ये विष्टिस्तपती सुते च सवितुश्छायाकुटुम्बे यथा 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।३।।
**********************
संज्ञाया ननु विद्यते मनुरयं वैवस्वतो वै यथा 
तस्याः पुत्रयमस्तथा च यमुना पुत्री तथैवं वरा ।
राज्ञ्याश्चैव कुटुम्बकैकसुसुतो यो रैवतो ज्ञायते 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।४।।
**********************
सूर्यस्यैव कुटुम्बके च विमलः पुत्रः प्रभातस्तथा 
माता बोधयतीति तं च विमलं पुत्रं प्रभा सर्वथा ।
आहत्यैव सुताश्च सन्ति सवितुः त्रिस्रस्तथाष्टौ सदा 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।५।।
**********************
यो रक्ताम्बुजसंस्थितस्स तपनः केयूरहारी सदा 
पद्मे द्वे च करौ हि यस्य सततं मुद्रा भयं वारिणी ।
एका या वरदायिनी सुखकरी मुद्रा परा देवता 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।६।।
**********************
यज्ज्योतिर्मयरूपमेवममलं तद्दृश्यते भौतिकं 
तस्यैवं ननु सारथिः स अरुणो विभ्रामकस्सर्वथा ।
अश्वो वै वृषभस्तु कुक्कुर अजः  
तद्वाहनं कुक्कुटः 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।७।।
**********************
खड्गं चक्रशरौ गदा च परशुः कुन्तश्च पाशस्तथा 
दण्डो वै धनुरङ्कुशश्च सवितुः सन्त्यायुधान्येव च ।
नीत्वा यो भ्रमणं करोति गगने सूर्यः सदा सर्वथा 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।८।।
**********************
भिक्षान्नं दधि पायसं गुडघृते या शर्करा वै मधुः 
सूर्यस्यैव च भोजनं रुचिकरं तद्बोधितं भो जनाः! ।
सूर्यस्यैव रथेन सहैव सुजना नैके भ्रमन्तीति ये 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।९।।
**********************
ये देवा ऋषयस्तथाहि मुनयो नागाश्च वै राक्षसा  
गन्धर्वा ननु मन्दरस्य सुभगा धावन्ति मित्रं प्रति ।
नित्यं ते तरणिं स्तुवन्ति भुवने सूर्यं च हंसं सदा 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।१०।।
**********************
अत्रिर्गौतमकश्यपौ च पुलहो यो वै वसिष्ठस्तथा 
यश्चैवं जमदग्निरेव स भृगुर्यः कौशिको वै तथा ।
भारद्वाजपुलस्त्य एव ऋषयो यो यो$ङ्गिरा वै ऋतुः
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।११।।
**********************
धाता यो वरुणार्यमा ननु भगो मित्रो विवस्वांस्तथा 
पर्जन्यश्च तु शक्र एव विमलो विष्णुश्च पूषा तथा ।
यस्त्वष्टा किल विद्यते त्रिभुवने त्वंशुः च वै द्वादश 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।१२।।
**********************
यक्षा अप्सरसस्तथा च मुनयो ये राक्षसा द्वादश 
नागा द्वादश सङ्ख्यका अनुचराः सूर्यस्य ये वाहकाः ।
गन्धर्वास्तु चलन्ति सूर्यपुरतो गीतं वदन्तो यथा 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।१३।।
**********************
ग्रीष्मे चैव वसन्तके तपति यः षड्भिश्च सूर्यो यथा 
वर्षर्तौ च चतुर्भिरेव शरदो यो सम्प्रवर्षयन् प्रभुः ।
हेमन्ते शिशिरे त्रिभिः हिममयं यो रश्मिभिः सर्वथा 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।१४।।
**********************
देवेशो ननु चैत्रमाससुखदो वैशाखधाता यथा 
ज्येष्ठे वै किल चेन्द्रराजसुरविः त्वाषाढमासे तथा ।
यो वै श्रावणमासमेव सततं तद्वै विवस्वान्सदा 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।१५।।
**********************
भाद्रे वै भग एव रूपसकलः पर्जन्य एवाश्विनि 
मासे कार्तिकभास्करः परिचितो मित्रो भवेद् मार्गके ।
पोषे विद्यत एव यश्च भगवान् विष्णुस्सदा पालको 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।१६।।
**********************
माघे वै वरुणश्च सूर्यतपनः पूषा तथा फाल्गुने 
ते ये द्वादश वर्णिता निगदिता मासाश्च ते द्वादश ।
भिन्ना वर्णयुताश्च सन्ति रवयो ज्ञेयो बुधैः सर्वथा 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।१७।।
**********************
सूर्यो यश्च वसन्तके हि कपिलो ग्रीष्मे च वै काञ्चनो  
यो वर्षासु च विद्यते हि धवलो पीतो शरत्स्वेव हि ।
हेमन्ते किल ताम्रवर्णविमलो यः शैशिरे लोहितो 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।१८।।
**********************
सूर्यं ये च नमन्ति वै च सुजनाः नित्यं च प्रातस्सदा 
अज्ञानं हृदयस्य नश्यति तमो ज्ञानेन दीपेन वा ।
अर्घ्यं च स्तवनं च तस्य सवितुः कुर्वन्तु भो मानवाः 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।१९।।
**********************
भक्त्या यद्रचितं हि सूर्यचरितं श्रेष्ठं शिवान्या यथा 
ये ये निर्मलचेतसा हि मिहिरं ध्यात्वा पठन्त्येव तत् ।
तेजो वर्धत एव रूपवपुषा नेत्रेषु वै सर्वथा 
वन्दे तं च विभाकरं दिनकरं सप्ताश्वरूपं सदा ।।२०।।
  (शार्दूलविक्रीडितं छन्दः)
डा. शिवानी शर्मा, जयन्तीपुरम्, हरियाणाराज्यम् ।
**********************

No comments:

Post a Comment