🌷🌷🌷🌷🌷🌷🌷
।।कुशद्वीपस्य वर्णनम् ।।
🌷🌷🌷🌷🌷🌷🌷
सुन्दरो हि कुशद्वीपो घृतोदेन यथाऽऽवृतः ।
द्वीपो देवकृतश्चायं कुशस्तम्बो हि कथ्यते ।।१।।
अग्निदेवसमो वेद्यः कुशाग्रभागपत्रकम् ।
स्वशष्परोचिषा स्तम्बः प्रकाशयति वै दिशः ।।२।।
तद्द्वीपाधिपतिश्चैष प्रियव्रतात्मजो महान् ।
राजा हिरण्यरेता वै महात्मा गुणवांस्तथा ।।३।।
कृत्वा सप्तविभागान्स कुशद्वीपस्य सर्वथा ।
ददौ हि सप्तपुत्रेभ्यस्तपस्तप्तुं स्वयं गतः ।।४।।
वसुश्च वसुदानो हि नाभिगुप्तो दृढो रुचिः ।
स्तुत्यव्रतो विविक्तश्च वामदेवो हि सप्तमः ।।५।।
सप्तपर्वतका नद्यस्तेषां वर्षेषु सन्ति हि ।
ब्रवीमि च गिरीणां वै नामानि क्रमशो यथा ।।६।।
चक्रश्चैव चतुःशृङ्गस्चित्रकूटस्तथा हि ये ।
द्रविण ऊर्ध्वरोमा च देवानीको हि सप्तमः ।।७।।
मधुकुल्या नदी चैषा रसकुल्या घृतच्युता ।
मित्रविन्दा सदा ज्ञेया मन्त्रमाला यथा शुभा ।।८।।
देवगर्भा पवित्रा वै सप्तमी वर्तते नदी ।
आभिस्सर्वाभिरेवं तु राज्यसीमा सुनिश्चिता ।।९।।
यासां जलैः पुनन्त्येव कुशद्वीपवनौकसः ।
कुशलाः कोविदास्सर्वेऽभियुक्ताः कुलकास्तथा ।।१०।।
यजन्ते भगवन्तं ते जातवेदसरूपिणम् ।
कौशलकर्मभिस्तं वै प्रसन्नं कुर्वते हरिम् ।।११।।
नमस्तेऽग्निस्वरूपाय नमस्तेजस्स्वरूपिणे ।
नमो वेदस्वरूपाय सर्वाधिपतये नमः ।।१२।।
पूजयन्ति हरिं देवं स्तुतिभिस्तं स्तुवन्ति ते ।
शिवान्यापि स्तुतो देवः कुशद्वीपस्तु वर्णितः ।।१३।।
(अनुष्टुप्छन्दः)
डा. शिवानी शर्मा, जयन्तीपुरम् , हरियाणाराज्यम् ।
🌷🌷🌷🌷🌷🌷🌷🌷
No comments:
Post a Comment