बोधेन्द्र सरस्वती स्तवः
भगवन्नामसाम्राज्यलक्ष्मीसर्वस्वविग्रहम् ।
श्रीमत्बोधेन्द्र योगीन्द्र देशिकेन्द्रं उपास्महे ॥
श्रीगोविन्दपुरीं कवेरतनयातीरस्थितां पावनीम् ।
श्रीवैकुण्ठाधिक वैभवां सुरगणैर्मान्यां नमस्कुर्महे ॥
यत्र श्रीहरिनामकीर्तन सुधास्वादेन सिद्धिं गतः ।
सान्निध्यं कुरुते गुरुः यतिपतिर्बोधेन्द्रयोगीश्वरः ॥
यस्य स्मरणमात्रेण नामभक्तिः प्रजायते ।
तं नमामि यतिश्रेष्ठं बोधेन्द्रं जगतां गुरुम् ॥
************
श्री बोधेन्द्राष्टकम ॥
श्रीमन् बोधेन्द्रयोगीन्द्र देशिकेन्द्र नमोस्तु ते ।
सर्वलोकशरण्यस्त्वं नामभक्तिं प्रयच्छ मे ॥ १ ॥
त्वं दाताज्ञानरत्नस्य त्वं त्राता स्वजनस्य च ।
त्वं माता निजशिष्याणां नामभक्तिं प्रयच्छ मे ॥ २ ॥
श्रीमन्नभीष्टफलद स्वामिन् संसारतारक ।
जगद्गुरो जगन्नाथ नामभक्तिं प्रयच्छ मे ॥ ३ ॥
भगवन्नामसाम्राज्यप्रभो मां शरणागतम ।
समुद्धर्तुं कृपासिन्धो नामभक्तिं प्रयच्छ मे ॥ ४ ॥
गुरुं प्रपद्ये लोकानां त्वामेव करुणालयम् ।
कृपाकटाक्षलेशेन नामभक्तिं प्रयच्छ मे ॥ ५ ॥
संसारार्णवमग्नस्य नान्यः पन्था मम प्रभो ।
तस्मात् कुर्वन् मयि कृपां नामभक्तिं प्रयच्छ मे ॥ ६॥
शरण्यं किल नामेति भवता निश्चितं मतम् ।
नीचानामपि तस्मात्त्वं नामभक्तिं प्रयच्छ मे ॥ ७ ॥
अज्ञानध्वान्तमुग्धस्य मम त्वं भास्करो यथा ।
मार्गदर्शी महाबन्धुर्नामभक्तिं प्रयच्छ मे ॥ ८ ॥
एवं बोधेन्द्रपादाब्जप्रेमभोगप्रदायकम् ।
अष्टकं यः पठेन्नित्यं तस्य नाम प्रसीदति ॥ ९
****** इति श्रीबोधेन्द्राष्टकं संपूर्णम् ******
No comments:
Post a Comment