शङ्का-समाधानम् --
शङ्का -- यदि केवलेन नामजपेन हि सर्वं पापं विनश्येत्, तर्हि पुनः शास्त्रेषु पापात् आत्मानं विमोचनाय नानाप्रकारकाः प्रायश्चित्तनियमाः किमर्थम् उल्लिखिताः वर्तन्ते ; पुनः तेषां कुतः आवश्यकता अत्र ?
समाधानम् - नामजपद्वारा ज्ञाताज्ञातादीनां सर्वविधपापानां प्रायश्चित्तं भवति, सर्वाणि पापानि च नश्यन्ति ; परन्तु नाम-विषये जनेषु श्रद्धा-विश्वासादीनां न्यूनताकारणतः एव शास्त्रेषु विविधप्रायश्चित्तादीनाम् उल्लेखनं कृतं वर्तते । यदि भगवन्नाम्नि वास्तविकी प्रीतिः, अन्तःमनसि च श्रद्धाविश्वासादयः भवेयुः तर्हि इतरप्रायश्चित्तानाम् आवश्यकता एव नास्ति । नामजपं कृतवतो भक्तस्य यदि किमपि पापम्, कापि त्रुटिः वा सम्भवेत् तर्हि तद्दोषस्य दूरीकरणार्थम् अपरस्य प्रायश्चितस्य न कापि आवश्यकता । केवलं तत्परतापूर्वकं नामजपः क्रियते चेत्, अनेनैव सर्वं समाधानं प्राप्स्यते इति ।
सुप्रभातम् ! सुदिनम् ! जयतु देववाणी !
-- नारदः, १६/०९/२०.
Paramam Adbhutham.
ReplyDelete