Friday, January 29, 2021

Whatsapp astrology- Sanskrit

*व्याट्सप् ज्योतिषिकविवेचनम्।*

१) यस्य भावचित्रं स्थिरं भवति तस्य स्वभावः शान्तः भवति। 

२) यः वारं वारं स्वभावचित्रं परिवर्तते तस्य स्वभावः चञ्चलः भवति। 

३) यः संक्षिप्तसन्देशं लिखति सः सन्तोषप्रवृत्तेः जनः भवति। 

४) यः वारं वारं नूतनसन्देशं लिखति सः अत्यन्तम् उत्सुकः भवति।

५) यः सततं किमपि वा प्रसारयति सः उदारः भवति। 

६) यः कदापि अन्येषां सन्देशानां प्रशंसां न करोति सः अहंकारी भवति। 

७) यः प्रत्येकं सन्देशस्य उपरि प्रतिक्रियां ददाति सः अन्येषां भावनानाम् आदरं करोति। 

८) यः कदापि किमपि न प्रसारयति सः अत्यन्तं कृपणः भवति। 

९) यः दीर्घसन्देशं न पठति सः अलसः भवति। 

१०) यः एकाधिकगणान् निर्माति सः अतीव महत्त्वाकांक्षी भवति। 

*-प्रदीपः!*

No comments:

Post a Comment