Wednesday, December 2, 2020

Treat your wife like a flower - Sanskrit joke

एकस्य नूतनः विवाहः अभवत्। 

पतिः प्रातःकाले शीघ्रम् उत्थाय जलम् आनीय सुप्तस्याः पत्न्याः शरीरे तज्जलं पातितवान्।

तदा तस्य पत्नी जागरित्वा कुपिता सती उक्तवती किमर्थं मम शरीरे जलं पातितवान्?

पतिः तदा उत्तरितवान् - भवत्याः पिता माम् उक्तवान् आसीत् हे जामातः ! मम पुत्री पुष्पम् इव कोमला अस्ति। तां शीर्णं मा स्म कारयत्। 

तदर्थमेव अहं भवत्याः शरीरे जलं पातितवान्। 
*-प्रदीपः!*Sanskrit

No comments:

Post a Comment