मनोगतम् [०२.१८] 'मनकीबात', प्रसारण-तिथि: -२९–नवम्बरः, २०२०
[भाषान्तरं – डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, नमस्कारः | 'मन की बात'-इति मनोगतस्य आरम्भे, अद्य अहम्, भवद्भिः सर्वैः साकं प्रसन्नता-प्रदं वृत्तमेकं सम्विभाजयितुं वाञ्छामि | प्रत्येकमपि भारतीयः एतद् ज्ञात्वा गर्वम् अनुभविष्यति यत्, देव्याः अन्नपूर्णायाः अतितरां प्राचीना एका प्रतिमा Canada-देशात् भारतं प्रत्यानीयते | एषा प्रतिमा, प्रायेण, शतं वर्षेभ्यः प्राक्, ऊनविंश-शताब्दे कदाचित्, वाराणस्याः एकस्मात् मन्दिरात् चोरयित्वा, देशाद् बहिः प्रेषितासीत् | अहं, Canada-सर्वकारस्य, तथा च, पुण्यकार्यमिदं सम्भावयितुं कृतप्रयत्नानां सर्वेषां कृते, अस्यै च सहृदयतायै कार्तज्ञ्यं प्रकटयामि | मातुः अन्नपूर्णायाः, विश्वनाथनगर्या काश्या, साकम् अतिविशिष्टः सम्बन्धः अस्ति | अधुना, तस्याः प्रतिमायाः, प्रत्यागमनं हि, अस्माकं सर्वेषां कृते सुतरां सुखदं वृत्तम् | मातुः अन्नपूर्णायाः प्रतिमामिव, अस्मदीय-रिक्थस्य अनेके अमूल्याः दायाः, आन्ताराष्ट्रिय-तस्करगणैः चोरिताः | एते गणाः, आन्ताराष्ट्रियविपण्यां, चोरितान् दायान्, बहु उच्च-मूल्यैः विक्रीणन्ति | साम्प्रतम्, एतान् विरुद्ध्य कठोरतया व्यवह्रियते, मुषितानां वस्तूनां प्रत्यानयनार्थं, भारतं स्वीय-प्रयासान् अपि वर्धितवत् | एतादृशानां प्रयासानां कारणात् विगतेषु केषुचित् वर्षेषु, भारतम्, बह्वीनां प्रतिमानां कलाकृतीनां च प्रत्यानयने सफलम् अवर्तत | मातुः अन्नपूर्णायाः प्रतिमायाः प्रत्यावर्तनेन साकम्, अन्यतरः संयोगः अयमपि सम्युक्तः यत् केभ्यश्चित् दिनेभ्यः प्रागेव World Heritage Week- इति विश्व-दाय-सप्ताहः आमानितः | विश्व-दाय-सप्ताहः संस्कृतिप्रेमिणां कृते, पुरातन-कालं प्रत्यागन्तुं, तस्य इतिहासस्य च महत्त्वपूर्णान् यामान् अन्वेष्टुं प्रशस्तम् अवसरं प्रददाति | सत्यपि कोरोना-कालखण्डे, साम्प्रतं वयं, नवाचार-प्रकारैः दाय-सप्ताहम् आयोजयतः जनान् अपश्याम | सङ्कटावसरे संस्कृतिः सुबहु सहायिनी भवति, सङ्कटनिवारणे चेयं मुख्यां भूमिकां निर्वहति | Technology-इति प्रविधि-माध्यमेनापि संस्कृतिः, भावात्मकं पुनः ऊर्जापूरणं करोति | सम्प्रति देशे अनेके सङ्ग्रहालयाः ग्रन्थागाराश्च नैजं सञ्चयं पूर्णरूपेण digital-इति अङ्कीयं विधातुं तत्पराः सन्तः कार्याणि कुर्वन्ति | दिल्ल्याम्, अस्माकं राष्ट्रियसङ्ग्रहालयः एतत्-सम्बद्धं सुतरां प्रशंसनीयं प्रयासम् अकरोत् | राष्ट्रियसङ्ग्रहालयः प्रायेण दश-संख्याकान् virtual galleries- इत्याभासिनः अलिन्दान् प्रवर्तयितुं कार्यनिरतः – अप्यस्ति, ननु आनन्ददायकं वृत्तमिदम्! साम्प्रतं भवन्तः, गृहे एव स्थित्वा दिल्ल्याः राष्ट्रियसङ्ग्रहालयीयान् अलिन्दान् भ्रमितुं शक्ष्यन्ति, यत्र एकतः सांस्कृतिक-रिक्थानि प्रविधि-माध्यमेन अधिकतमेभ्यः जनेभ्यः प्रापयितुं मुख्यतया संलक्ष्यते, तत्रैव, एतेषां रिक्थानां संरक्षणस्य कृते प्रविधेः उपयोगः अपि महत्वपूर्णोsस्ति | नातिचिरं, एकस्याः रोचिकायाः योजनायाः विषये पठन् आसम् | नॉर्वेदेशस्य उत्तरस्यां दिशि 'Svalbard'- [स्वाल्बर्ड]नामकः द्वीपः अस्ति | अस्मिन् द्वीपे Arctic world archive- इति उत्तरध्रुवीय-विश्वाभिलेखागारनाम्नी योजना विरचितास्ति | अस्मिन् अभिलेखागारे बहुमूल्यात्मिका रिक्थ-आधार-सामग्री एवं प्रकारेण संरक्षितास्ति या नाम काभिश्चिदपि प्राकृतिकापदाभिः वा मानवनिर्मितापदाभिः नैव प्रभवेत् | प्रत्यग्रमेव, इयमपि सूचना अधिगता यत्, अजन्ता-गुहानां रिक्थमपि digitize-इत्यङ्कीयं विधाय अस्यां योजनायां संयोज्यते | अत्र अजन्ता-गुहानां पूर्णमपि परिदृश्यम् अवलोकयितुं शक्ष्यते | अस्मिन्, अङ्कीकृतैः पूर्वावस्था-प्रापितैः च चित्रैः सहैव एतत्-सम्बद्धानि अभिलेख-पत्राणि उद्धरण-चिह्नानि चापि समावेक्ष्यन्ते |
सखायः, महामारी एषा एकतः, अस्मदीयां कार्यशैलीं परिवर्तितवती, तर्हि अपरतः, प्रकृतिं नूतनरीत्या अनुभवितुमपि अवसरं प्रादात् | प्रकृतिम् अवलोकयितुं प्रवर्तमाना अस्माकीना दृष्टिरपि परिवर्तितास्ति | सम्प्रति वयं शीतर्तौ पदमादध्मः | वयं प्रकृतेः पृथक्-पृथक् वर्णान् द्रष्टुं शक्ष्यामः | विगतेभ्यः कतिपयेभ्यः दिनेभ्यः अन्तर्जालं Cherry Blossoms-इत्यस्य सुबहु-सञ्चारितैः चित्रैः सम्भरितं विद्यते | भवन्तः विचारयन्तः स्युः – यदाहं Cherry Blossoms-इत्यस्य वृत्तं कथयन्नस्मि, तदा जापानस्य प्रसिद्धस्य अस्य अभिज्ञानं वदन्नस्मीति – परञ्च एवं नास्ति! एतानि जापानदेशीयानि चित्राणि नैव सन्ति | इमानि तु अस्मदीयस्य मेघालयीय-शिलाँगस्य चित्राणि वर्तन्ते | मेघालयस्य सौन्दर्यम् Cherry Blossoms-इत्येतैः नितरां विवर्धितम् |
सखायः! अस्य मासस्य द्वादशदिनांकादारभ्य डॉ.सलीम-अली-महाभागस्य पंचविंशत्युत्तरैकशततमः जयन्तीसमारोहः आरब्धः। डॉ.सलीमेन पक्षि-प्रेक्षणकार्येषु उल्लेखनीयोपलब्धयः अधिगताः। येन अखिल-संसारस्य पक्षिप्रेक्षकाः भारतं प्रत्याकर्षिताः जाताः। अहं सर्वदैव पक्षिप्रेक्षणासक्तानां प्रशंसकः अस्मि। ते ह्यसीमधैर्येण नैकहोरापर्यन्तं प्रभातादारभ्य सायं यावत् पक्षि-प्रेक्षणे निरताः भवितुमर्हन्ति, प्रकृतेश्च अपूर्वदृश्यानां आनन्दमनुभवन्ति। ते ह्यस्मिन् प्रसंगे अधिगतज्ञानं अस्मभ्यमपि प्रयच्छन्ति। भारते अनेकाः पक्षिप्रेक्षण- संस्थाः सक्रियाः सन्ति। भवन्तोऽपि एतस्मिन्विषये औत्सुक्यं प्रदर्शयन्तु। मम व्यस्तजीवनेऽपि विगतदिनेषु गुजरातस्य केवडियाक्षेत्रे पक्षिभिस्साकं समययापनस्य अविस्मरणीयः अवसरोऽधिगतः। तैस्साकं व्यतीतकालः भवतः प्रकृत्या समायोजयिष्यति, पर्यावरणस्य कृते प्रेरणास्पदं चाऽपि भविष्यति।
मम प्रियाः देशवासिनः, भारतीया संस्कृतिः शास्त्राणि च सर्वदैव अखिलसंसारे आकर्षणकेन्द्राणि अवर्तन्त। नैके जनास्तु तेषामन्वेषणाय भारते समागताः, अत्रैव च कृतवासाः जाताः। अन्ये स्वदेशं प्रत्यावर्त्य अस्य संस्कृतेः संवाहकाः अभवन्। अस्मिन्प्रसंगे मया जोनस-मसेति-महाभागस्य परिचयः प्राप्तः यो हि 'विश्वनाथ' इत्यपरनाम्नाऽपि ज्ञायते। जोनसः ब्राज़ील-देशे जनान् वेदान्तं श्रीमद्भगवद्गीतां च पाठयति। असौ विश्वविद्येति नामिकां संस्थामपि चालयति या हि 'रियो-डि-जेनेरो'-नगरात् होरावधिके अन्तराले पेट्रोपोलिसाख्ये पर्वते स्थितास्ति। जोनसः यान्त्रिकाभियान्त्रिकीविषये अध्ययनानन्तरं अंशविपणौ स्वीयसमवाये कार्यरतः आसीद्यदा तस्यावधानं भारतीयां संस्कृतिं विशेषतश्च वेदान्तं प्रत्याकृष्टम्। विपणितः वेदान्तं; अंशतश्च अध्यात्मं प्रति तस्य सुदीर्घा यात्राऽवर्तत। जोनसेन चतुर्वर्षपर्यन्तं कोयम्बटूरस्य आर्षविद्या-गुरुकुले वेदान्तमधीतम् । असौ हि स्वीयसन्देशं प्रसारयितुं प्रविधेः प्रयोगमाचरति। तेन नियतरूपेण ऑन्लाइन-इति सद्यस्क-कार्यक्रमायोजनं पोड्कास्ट-इति अन्तर्जालीय-प्रसारणं चापि सम्पाद्यते। विगतेषु सप्तवर्षेषु जोनसमहाभागः स्वीयानां निःशुल्कं मुक्तकक्षाणां माध्यमेन सार्धैकलक्षजनान् वेदान्तमध्यापितवान् । जोनसः न केवलम् एतादृक्-महत्कार्यं करोति अपितु एतादृश्यां भाषायां करोति यस्याः अभिज्ञानां संख्या प्रभूता विद्यते। जनेष्वपि तस्य कार्यं प्रति अतिशया रुचिरस्ति यत्कोरोना-पृथक्वासादीनां चास्मिन् कालखण्डे वेदान्तः कथं तेषामुद्धारकः भवितुमर्हति इति। मनोगतमित्यस्य माध्यमेनाहं जोनस-महाभागस्य, तस्य प्रयासानां च कृते वर्धापनं व्याहरामि, युगपदेव तस्य भाविप्रसङ्गानां कृते स्वीयाः शुभकामनाः प्रेषयामि।
सखायः, एवमेव अन्यमेकं वृत्तं प्रत्यपि भवताम् अवधानम् आकर्षणीयमस्ति। न्यूज़ीलैण्डदेशे नवनिर्वाचित-सांसदेन डॉ.गौरवशर्मणा विश्वस्य प्राचीनतमासु भाषासु अन्यतमया संस्कृतभाषया शपथग्रहणमाचरितम् । भारतीयत्वेन अस्माकं संस्कृतेः एषः प्रसारः अस्मान्गर्वेणापूरयति। मनोगतमित्यस्य माध्यमेनाहं गौरवशर्ममहाभागाय शुभकामनाः व्याहरामि। वयं कामयामहे यदसौ हि यूज़ीलैण्डवासिनां सेवाप्रसंगेषु नूतनोपलब्धीः अधिगच्छतु इति।
मम प्रियाः देशवासिनः, श्वो नवम्बरस्य त्रिंशत्तमे अहनि, वयं श्रीगुरुनानकदेवस्य एकपंचाशदुत्तर-पंचशततमं प्रकाशपर्व मानयिष्यामः। अखिलेऽपि विश्वे श्रीगुरुनानकदेवस्य प्रभावः स्पष्टतयाऽनुभूयते। वैकूवरतः वैलिंग्टनं, सिंगापुरतः साउथाफ्रीकां च यावत् तस्य सन्देशाः सर्वत्रानुगुञ्जन्ते। गुरुग्रन्थसाहिबे कथितमस्ति यत् ''सेवक को सेवा बन आई'' अर्थात् सेवकस्य कार्यं सेवायोजनमस्ति। विगतेषु वर्षेषु नैकावसरेषु सेवकरूपेण अस्माभिः सेवासम्पादनस्यावसराः अधिगताः। गुरुवर्येण अपि अस्माकं सेवाः सौपचारिकं स्वीकृता। गुरुनानकदेवस्य पंचाशदुत्तरपंचशततमं प्रकाशपर्व, श्रीगुरुगोविन्दसिंहस्य पंचाशदुत्तरत्रिशततमं प्रकाशपर्व, एवमेव आगामिनि वर्षे श्रीगुरुतेगबहादुरस्य चतुश्शततमं प्रकाशपर्व चाप्यस्ति। अहम् अनुभवामि यद्गुरुसाहब-वर्याणां मयि विशेषकृपा अवर्तत यत्तैरहं सर्वदैव स्वीयकार्यैः साकल्येन समायोजितोsस्मि।
सखायः, अपि भवन्तः जानन्ति यत् कच्छक्षेत्रे एकं गुरुद्वारं वर्तते यस्य नाम लखपत-गुरुद्वारासाहिब- इत्यस्ति। श्रीगुरुनानकदेवः स्वीये 'उदासी'-काले तत्रागतः आसीत्। एकोत्तरद्विसहस्रतमे वर्षे भूकम्पेन एतत् गुरुद्वारं क्षतिग्रस्तं जातम्। एषा हि गुरुसाहिब-कृपा एवासीद् यदहमेतस्य जीर्णोद्धारं कर्तुमपारयम्। न केवलं जीर्णोद्धारं अपितु गौरवस्थापनमपि सफलतया सुनिश्चितीकृतं येन वयं गुरुसाहबपादानां प्रभूताशीर्वादान् अधिगतवन्तः। लखपत-गुरुद्वारस्य संरक्षण-प्रयासाः चतुरधिकद्विसहस्रतमे वर्षे यूनेस्को-एश्यिा- प्रशान्त-रिक्थपुरस्कारेषु विशिष्टप्रशस्त्या सभाजिताः। पुरस्कारप्रदायकेन निर्णायकमण्डलेन जीर्णोद्धारप्रसंगे गुरुद्वारस्य शिल्पविधानां सूक्ष्मावधानं सविशेषं प्रशंसितम्। निर्णायकमण्डलं एतदपि अभिज्ञातवत् यत् गुरुद्वारस्य पुनर्निर्माणे सिखसमुदायेन न केवलं सक्रिययोगदानम् अपितु मार्गदर्शनमपि उपपादितम्। लखपतगुरुद्वारस्य दर्शनसौभाग्यं मया तदापि अधिगतं यदाहं मुख्यमन्त्री अपि नाऽसम्। तत्र गत्वाऽहं असीमोर्जाम् अवाप्तवान्। अस्मिन् गुरुद्वारे गत्वा सर्वेऽपि आत्मानं धन्यमनुभवन्ति। अहं गुरुपादानाम् अतीव कृतज्ञः यत्तैरहं सततं सेवावसरैः सभाजितोsस्मि। विगते नवम्बरे करतारपुरसाहिब-सम्पर्कमार्गस्य आरम्भः ऐतिहासिकावसरः अवर्तत। एतत्सन्दर्भमहम् आजीवनं स्वीयहृदये संधारयिष्यामि। इदम् अस्माकं सर्वेषां सौभाग्यं यदस्माभिः दरबारसाहिबस्य सेवावसरः पुनरधिगतः। विदेशवासि-सिखभ्रातृ-भगिनीनां कृते सम्प्रति दरबारसाहिबसेवा-राशिप्रेषणं सरलतरं सञ्जातमस्ति। एतत्पदेन अखिलविश्वस्य सिखसंगतं दरबारसाहिबस्य निकटतरं समागतम्।
सखायः, अयं गुरुनानकदेवः एवासीत् येन 'लंगर' अर्थात् सहभोजपरम्परा आरब्धासीत्। अधुना अस्माभिः दृष्टं यदखिलसंसारे सिखसमुदायेन कोरोनाकाले जनेभ्यः भोजनाबण्टनस्य स्वीयपरम्परा संधारिता। मानवतायाः एषा सेवा अस्मत्कृते सततं प्रेरणास्पदमस्ति। अहं कामये यद्वयं सर्वेsपि सेवकरूपेण स्वीयकार्येषु निरताः भवेम। गुरुसाहिबवर्याः मदीयाः, देशवासिनां च सेवाः स्वीकुर्वन्तु। पुनरेकवारं मम पक्षतः गुरुनानकजयन्त्यवसरे भूयस्यः शुभकामनाः।
मम प्रियाः देशवासिनः, विगतदिनेषु मया देशस्यानेकैः विश्वविद्यालयच्छात्रैः साकं संवादेन, तेषां शिक्षायात्रायाः महत्वाधायिप्रसंगेषु सहभागस्यावसरः अधिगतः। प्रविधिमाध्यमेन मया आई.आई.टी.-गुवाहाटी-आई.आई.टी.-दिल्ली-दीनदयाल-पैट्रोलियम्-विश्वविद्यालय-गान्धिनगरम्-जे.एन.यू.दिल्ली-मैसूरुविश्वविद्यालय-लखनऊ-विश्वविद्यालयानां विद्यार्थिभिः सम्भाषितम् । देशस्य युवजनैः साकं संवादः अतीव तृप्तिकरः ऊर्जाप्रदायकश्चावसरः भवति। विश्वविद्यालयपरिसराः तु एकत्वेन 'लघुभारतरूपाः' एव भवन्ति। एतेषु परिसरेषु भारतस्य वैविध्यं दृष्टिगोचरं भवति अन्यतश्चाऽत्र भारते महत्परिवर्तनानां उत्कण्ठाऽपि परिलक्ष्यते। कोरोनातः पूर्वं यदाऽहं कस्मिंश्चित्संस्थाने प्रत्यक्षतः अगच्छम्, तदा निकटवर्तिविद्यालयानां निर्धनविद्यार्थिनोऽपि साग्रहं तत्रामन्त्रिताः। तेsहि समारोहेषु मम विशेषातिथिरूपेण सहभागिनः भवन्ति स्म। कोऽपि अल्पवयस्कः बालः यदा भव्यसमारोहे कञ्चिद्युवानं चिकित्सक-आभियान्त्रिक-वैज्ञानिकरूपेण वा उपाधिं पुरस्कारं वा स्वीकुर्वन्तं पश्यति, तदा तस्मिन्नपि स्वप्नः समुद्भवति, आत्मविश्वासः च जागर्ति, यदहमपि एतत्कर्तुं पारयामि। एतेनैव संकल्पाय उत्प्रेरणं भवति।
सखायः, एतेन सहैव अहम् एतत्ज्ञातुमपि उत्सुकः भवामि यत्तस्य संस्थानस्य पूर्वविद्यार्थिनः के सन्ति? अपि तस्मिन् संस्थाने स्वीयपूर्वच्छात्रेभ्यः निरन्तरं सम्पर्कसंधारणस्य व्यवस्था वर्तते? तत्संस्थानस्य पूर्वच्छात्रमण्डलं सक्रियम् अस्ति न वेति।
मम युव-सखायः, भवन्तः यावत्कस्मिंश्चित् संस्थाने पठन्ति, तावदेव तस्य विद्यार्थिनः भवन्ति। परं पूर्वच्छात्ररूपेण तेन साकं सम्बन्धः आजीवनं प्रवर्तते। विद्यालयादथवा महाविद्यालयात् निर्गमनानन्तरमपि तत्रत्यायाः शिक्षायाः प्रभावः संस्थानं प्रति चाकर्षणं आजीवनं सम्प्रवर्तते। पूर्वच्छात्राः यदापि परस्परं सम्भाषन्ते तदा तेषां स्मृतौ पुस्तकेभ्यः अध्ययनेभ्यश्चाधिकतरः परिसरेषु व्यतीतः कालः, मित्रैः साकं सभाजिताश्च क्षणाः अविस्मरणीयाः भवन्ति। एतासु स्मृतिष्वेव संस्थानस्य कृते कश्चन समर्पणस्य भावः उद्भवति। यत्र भवतः व्यक्तित्वं विकसितम्, तस्य विकासार्थं यदि भवन्तः किमपि कर्तुमर्हन्ति, ततः महत्तरः सुखानुभवः कः भवितुमर्हति? मया एतादृशानां कतिपयप्रयासानां विषये पठितमस्ति यत्र पूर्वच्छात्रैः स्वीय-संस्थानेभ्यः अधिकाधिकं योगदानं कृतम्। अद्यत्वे पूर्वच्छात्राः एतस्मिन्विषये अतीव सक्रियाः सन्ति। आई.आई.टी.-संस्थानां पूर्वच्छात्रैः स्वीयसंस्थानेभ्यः सम्मेलनकक्ष-प्रबन्धनकेन्द्र-शोधसंवर्धनकेन्द्ररूपेण अमूल्योपहाराः समर्पिताः सन्ति। एते प्रयासाः तत्रत्यानां विद्यार्थिनाम् अध्ययनानुभवानां संवर्धनं कुर्वन्ति। आई.आई.टी.दिल्लीसंस्थानेन एकः अनुदानकोषः स्थापितः, यो हि एकः उत्कृष्टविचारः अस्ति। विश्वस्य विख्यातेषु विश्वविद्यालयेषु एतादृशानां कोषाणां परम्परा दृश्यते येन विद्यार्थिनां साहाय्यं सम्पाद्यते। अहमनुभवामि यद्भारतस्य विश्वविद्यालयाः अपि अस्याः परम्परायाः अनुपालने समर्थाः सन्ति । यदा प्रतिदानस्य प्रसंगः भवति तदा किमपि उत्कृष्टं निकृष्टं वा न भवति। स्वल्पमपि साहाय्यं महत्त्वं धारयति। प्रत्येकमपि प्रयासः श्लाघनीयः भवति। पूर्वच्छात्राः प्रायः स्वीयसंस्थानानां प्राविधिकोन्नयने, भवननिर्माणे, पुरस्कार-छात्रवृत्तीनां स्थापने, कौशलविकासस्य पाठ्यक्रमाणां विकासे च महत्त्वाधायिनं सहयोगं निर्वहन्ति। कतिपयानां विद्यालयानां पूर्वच्छात्रसंघटनैः सदस्यताकार्यक्रमाः आरब्धाः, येषु भिन्नसत्राणां विद्यार्थिनां मार्गदर्शनं सम्पाद्यते। एतेषु कार्यक्रमेषु शिक्षायाः प्रत्याशामालक्ष्य चर्चा क्रियते। अनेकेषां विद्यालयानां विशेषतश्च आवासीयसंस्थानानां पूर्वच्छात्रसंघटनानि अतीव सुदृढानि सन्ति। तैः नियमेन क्रीडामहोत्सवानां समुदायसेवायाश्च कार्यक्रमाणां आयोजनं क्रियते। अहं पूर्वच्छात्राणाम् आह्वानं कर्तुमिच्छामि यत्ते स्वीयाधीतसंस्थानैः साकं दृढबद्धाः भवेयुः। ते चेद्विद्यालयाः भवेयुः महाविद्यालयाः विश्वविद्यालयाः वा। अहं संस्थानेभ्यः अपि आग्रहं करोमि यत्तानि अपि स्वीयपूर्वच्छात्रैः सम्पर्कसंधारणस्य नूतनानां अपारम्परिकाणां चाप्युपायानामाश्रयम् अधिगच्छन्तु। पूर्वच्छात्राणां सक्रियसहभागं सुनिश्चिेतुं रचनात्मकपटलानां विकासः करणीयः। न केवलं प्रमुखमहाविद्यालयानाम् अथवा विश्वविद्यालयानां अपितु ग्रामीणविद्यालयानामपि सुदृढाः, सक्रियाः च पूर्वच्छात्रसंकुलाः स्थापनीयाः।
मम प्रियाः देशवासिनः । डिसेम्बर्-मासस्य पञ्चमे दिवसे श्रीअरविन्दवर्यस्य पुण्यतिथिः भविष्यति । तेन लिखितं साहित्यं यावत् पठामः तावतीम् एव गहनतां प्राप्नुमः ।
मम युवसखायः! अरविन्दवर्यं यावत् ज्ञास्यन्ति तावत् एव आत्मानं ज्ञास्यन्ति, समृद्धिं प्राप्स्यन्ति च । जीवने यस्यां भावावस्थायां भवन्तः सन्ति, यान् सङ्कल्पान् साधयितुं प्रयासरताः वर्तन्ते, तस्मिन् पथि भवन्तः अरबिन्दवर्यस्य नवप्रेरणां द्रक्ष्यन्ति, तेन प्रदर्शितं नवमार्गं ज्ञास्यन्ति । यथा – अद्य वयं 'लोकल् के लिए वोकल्' इत्यभियानं स्वीकृत्य अग्रेसराः भवामः, अत्रापि खलु अरबिन्दवर्यस्य स्वदेशिदर्शनं मार्गं प्रशस्तीकरोति । बांग्लाभाषायाम् एका प्रभावपूर्णा कवितास्ति -
छुई शुतो पॉय - मॉन्तो आशे तुंग होते ।
दिय - शलाई काठि, ताउ आसे पोते ।।
प्रोदीप्ति जालिते खेते, शुते, जेते ।
किछुते लोक नॉय शाधीन ।।
अर्थात् अस्माकं पार्श्वे शलाका-अग्निपेटिका-सदृशानि वस्तूनि अपि विदेशनौकया आयान्ति । भोक्तुं पातुं शेतुम्, अथ च, अन्यत् किमपि कर्तुं लोकाः स्वतन्त्राः न सन्ति । तस्य कथनम् आसीत् स्वदेशी- इत्यस्य अर्थः वर्तते यत् भारतीयकार्मिकैः निर्मितेभ्यः वरीयताप्रदानम् । एतदपि नास्ति यत् श्री-अरविन्दवर्येण विदेशत: किमपि पठितुं ज्ञातुं वा निषेधः कृतः । यतः यत् नवीनं योग्यं च लभते येन अस्माकं देशे वरं भवेत्, तस्य वयं सहयोगं करवाम, प्रोत्साहनं च करवाम, एषा हि किल आत्मनिर्भरभारताभियानस्य vocal for local इत्यस्य च मन्त्रस्य भावना अस्ति । विशिष्य स्वदेशिविषयम् अवलम्ब्य अरविन्दवर्येण यदुक्तं तत् प्रत्येकं देशवासिना पठनीयम् ।
सः शिक्षां केवलं पुस्तकज्ञानं यावत् उपाधिम् अथवा वृतिं च यावत् नैव अङ्गीकरोति स्म । श्रीअरविन्द: कथयति स्म यद् अस्माकं राष्ट्रिया शिक्षा, यूनां हृन्मस्तिष्कपरिष्कारात्मिका प्रशिक्षणात्मिका च स्यात्, येन मस्तिष्कस्य वैज्ञानिक: विकासः भवेत्, हृत्सु भारतीयभावनाः अपि सन्तु, तदा एव युवा देशस्य प्रकृष्टः नागरिकः भवितुम् अर्हति । अरविन्दमहोदयेन राष्ट्रियशिक्षाविषयकं यत् चिन्तनं या च अपेक्षा कृता आसीत्, अद्य देशः तमेव विचारं नूतनया राष्ट्रियशिक्षानीत्या परिपूर्णं कर्तुं प्रभवति ।
मम प्रियाः देशवासिनः! भारते कृषिः तत्सम्बद्धैः वस्तुभिः सह नूतनप्रकल्पाः योज्यमानाः सन्ति। विगतेषु दिवसेसु जातैः कृषिपरिष्कारैः कृषकेभ्यः नूतनद्वाराणि उद्घटितानि सन्ति । आबहोः कालात् कृषकाणाम् अपेक्षाः आवश्यकताः च, पूरयितुं विभिन्नैः राजनीतिकदलैः आश्वासनानि दत्तानि, तानि पूर्तिं गतानि। गुह्यविमर्शानन्तरं भारतस्य संसदा कृषिसम्बद्धपरिष्काराः विधित्वेन उद्घोषिताः । एतै: परिष्कारै: न केवलं कृषकाणां नैकबन्धनानि समाप्तानि, अपि तु नूतनाधिकाराः नवावसराः चापि प्राप्ताः । लब्धाधिकारैः अल्पीयसि समये कृषकसमस्यानां निराकरणम् आरब्धम् । महाराष्ट्रस्य धुलेजनपदस्य कृषकः जितेन्द्रभोई-वर्य: नवविधेः प्रयोगं कथं कृतवान् इति नूनं ज्ञातव्यम् एव । जितेन्द्रभोई- इत्यनेन मक्का-इति मकायस्य उत्पादनं कृत्वा उचितमूल्यं द्वात्रिंशदधिकत्रिलक्षरूप्यकमितं निश्चितं जातम् । जितेन्द्रवर्यः पञ्चविंशति-सहस्रात्मिकां अग्रिमराशिम् अपि प्राप्तवान् । निश्चितम् आसीत् यद् अवशिष्टं धनं पञ्चदशदिवसेसु प्रदास्यते परम् अनन्तरं स्थितिः एवंजाता यद् अवशिष्टं धनं न प्राप्तम् । कृषकात् धान्यं क्रीणन्ति, मासान् यावत् धनं न यच्छन्ति । सम्भवत: मकायक्रेतारः वर्षेभ्यः एनामेव परम्पराम् अनुस्रियमाणाः आसन् । एवं श्रीजितेन्द्राय अपि चतुर्मासं यावत् धनं न प्रदत्तम् । अस्यां स्थितौ सेप्टेम्बरमासे विनिर्मितः विधिः तस्य सहायताम् अकरोत् । अनेन विध्यनुसारं धान्यक्रयणस्य अनन्तरं दिनत्रये एव पूर्णं धनं कृषकाय दातव्यं भवति । यदि धनं न दत्तं तर्हि कृषकः अभियोगं कर्तुं शक्नोति । विधेः इतोsपि उत्तमः विषयः एषः आगतः यत् SDM-इति उपखण्डाधिकारिणा एकमासाभ्यन्तरम् एव प्रार्थिनः समस्यायाः अभियोगस्य वा समाधानं करणीयं भवति ।
इदानीम् एतादृशाः विधयः सन्ति, शक्तयः च सन्ति अस्माकं कृषकाणां पार्श्वे, तर्हि समाधानं तु निश्चितमेव भविष्यति । अभियोगानन्तरं कतिपयेषु एव दिनेषु एषः पूर्णं धनं प्राप्तवान् । अर्थात् विधेः सम्यक् ज्ञानं पूर्णसूचना च जितेन्द्रमहोदयस्य शक्तिरूपेण संवृत्ता । क्षेत्रं किमपि स्यात्, भ्रमेभ्यः विपरीतं सम्यक्-ज्ञानमेव मनुष्यस्य शक्तिः भवति । कृषकेषु एवमेव जागरूकता-सम्वर्धनार्थं कार्यं कुर्वन् अस्ति राजस्थानस्य बारां-जनपदस्य निवासी मोहम्मद-असलमवर्यः । एषः एकस्य कृषकोत्पादकसङ्घस्य मुख्यकार्यकार्यधिकारी अपि अस्ति । आम्, सम्यक् श्रुतं, कृषकोत्पादकसङ्कस्य CEO इति मुख्यकार्यकार्यधिकारी। आशासे यत् बृहत्-समवायानां मुख्यकार्यकार्यधिकारिणः एतत् श्रुत्वा प्रसन्ना: भविष्यन्ति यत् दूरस्थेषु क्षेत्रेषु कृषकसङ्घटनेषु अपि मुख्यकार्यकार्यधिकारिण: सन्ति । तर्हि सखायः! मोहम्मद-असलमवर्येण स्वक्षेत्रस्य नैकेषां कृषकाणाम् एकः वाट्सएप्-समूहः विनिर्मितः। अस्मिन् समूहे एष: समीपस्थानां मण्डीति धान्यविक्रयणकेन्द्राणां मूल्यादिसूचनां स्थापयति । स्वयं कृषकोत्पादकसंघटनम् अपि कृषकेभ्यः धान्यं क्रीणाति, एतेन प्रयासेन कृषकाः निर्णयस्वीकरणे सहायतां प्राप्नुवन्ति ।
सखायः! जागरुकता अस्ति तर्हि जीवन्तता वर्तते । स्वजागरूकतया सहस्रजनानां जीवनं प्रभावयिता एकः कृष्युद्यमी अस्ति श्रीवीरेन्द्रयादवः । वीरेन्द्रयादवः पूर्वं आस्ट्रेलियादेशे वसति स्म । वर्षद्वयपूर्वम् एव सः भारतम् आगतः। सम्प्रति हरियाणाराज्ये कैथल इति कपिष्ठले निवसति । अन्यैः सदृशं क्षेत्रेषु परालीति अवशिष्टसस्यभागस्य समस्या अस्य पुरतः अपि आसीत् । एतस्याः समस्यायाः समाधानार्थं यद्यपि व्यापककार्याणि चलन्ति परम् अद्य मनोगते, अहं वीरेन्द्रमहोदस्य विशिष्टरूपेण उल्लेखं कुर्वन् अस्मि। यतोहि तस्य प्रयासाः भिन्नाः सन्ति, नवपथं प्रदर्शयन्ति । परालीतिपदार्थस्य समाधानं कर्तुं वीरेन्द्रमहोदयेन पुआल-इत्यस्य straw baler-नामधेयं ग्रन्थिनिर्मातृयन्त्रं क्रीतम्। एतदर्थं कृषिविभागात् आर्थिकी सहायता अपि प्राप्ता। अनेन यन्त्रेण पराली- इत्यस्य गुच्छानां निर्माणम् आरब्धम् । गुच्छनिर्माणानन्तरं तेन परालीति पदार्थः agro energy plant, paper mill चेति उभाभ्यां प्रेषितः। भवन्त: ज्ञात्वा आश्चर्यान्विताः भविष्यन्ति यत् वीरेन्द्रमहोदयेन वर्षद्वये एव परालीद्वारा सार्धैककोटिमुद्रात्मक: व्यापारः कृतः। तत्रापि प्राय: पञ्चाशल्लक्षरुप्यकाणां लाभ: अर्जित:। एतस्य लाभः कृषकेभ्यः अपि अभवत् येषां क्षेत्रेभ्यः वीरेन्द्रमहोदयः परालीपदार्थं स्वीकरोति । वयम् अवकरात् कञ्चनम् इति विषयं तु श्रुतवन्तः स्याम, परं परालीं विक्रीय धनस्य पुण्यस्य च अर्जनस्य उत्कृष्टम् उदाहरणम् अस्ति । नवयुवानः विशिष्य कृषिविषयस्य अध्येतारः । अनतिचिरं जातानां कृषिपरिष्काराणां विषये सर्वान् जागरुकान् कुर्वन्तु । एवं कृत्वा भवन्तः देशे जायमानेषु विविधपरिणामेषु सहभागितां निर्वक्ष्यन्ति ।
मम प्रियाः देशवासिनः! मनोगते वयं भिन्न-भिन्न-विषयेषु संवादं कुर्मः परम् एतादृशी अपि एका वार्ता वर्षपूर्वं जाता यां वयं प्रसन्नतया स्मर्तुं नैव इच्छामः । प्रायः एकवर्षपूर्वं विश्वस्मिन्नपि विश्वे प्रथमवारं कोरोनासङ्क्रमणविषये ज्ञानम् अभवत् । तदारभ्य नैके आरोहावरोहाः दृष्टिंगताः । जनसञ्चरणरोधकालात् बहिः सम्प्रति vaccine- इति औषधविषयिणी चर्चा आरब्धा परं कोरोनाम् अधिकृत्य अनवधानम् अद्यापि घातकम् अस्ति । अस्माभिः कोरोनाविरुद्धं युद्धं तु सजवं प्रवर्तनीयम् एव ।
सखायः, केषाञ्चित् दिनानाम् अनन्तरमेव डिसेम्बरमासे षष्ठे दिने बाबासाहब-अम्बेडकरस्य पुण्य-तिथिरपि वर्तते | अस्मिन् दिने बाबासाहब-वर्याय श्रद्धाञ्जलि-प्रदानेन साकमेव, सम्विधानानुसारं नागरिकत्वेन देशं प्रति स्वीय-सङ्कल्पान्, निज-कर्तव्यानि च निर्वाहयितुं यत् शिक्षणम् अस्मभ्यं प्रदत्तम्, तस्य पुनरावृत्तेः अपि अयं शुभावसरः अस्ति | देशस्य बृहत्तमेषु भागेषु शीतर्तोः प्रभावः अपि विवर्धते | अनेकेषु स्थानेषु हिमपातः एधते | अस्मिन् ऋतौ कुटुम्बस्य बालानां वरिष्ठानां रुग्णानां च सदस्यानां कृते अस्माभिः विशेषावधानं सन्धारणीयम्, स्वयमपि अवधानता व्यवहरणीयास्ति | अहं प्रसीदामि यदाहं पश्यामि यत् जनाः स्वीय-परिपार्श्ववर्त्तिनाम् अपेक्षावतां च विषयेsपि चिन्तां कुर्वन्ति | ऊर्णावस्त्राणि दत्त्वा तेषां साहाय्यम् आचरन्ति | निःसहायानां पशूनां कृतेsपि शीतर्तुः अतितरां काठिन्यम् आपादयति | तेषां साहाय्यार्थमपि अनेके जनाः प्रयतन्ते | अस्मदीया युव-सन्ततिः एतादृक्-कार्येषु सोत्साहं सुबहु च सक्रिया भवति |
सखायः, आगामिनि क्रमे यदा वयं 'मनोगतम्'-कार्यक्रमे मेलिष्यामः, तदा विंशति-विंशतिः – इति वर्षं समाप्त-प्रायं भविता | नवीनाभिः आशाभिः, अभिनवेन च विश्वासेन साकं, वयम् अग्रेसरिष्यामः | अधुना, येsपि परामर्शाः भवेयुः, विचाराः वा सन्तु, नूनं तान् मया साकं सम्विभाजयन्तः स्युः | भवद्भ्यः सर्वेभ्यः भूयस्यः शुभकामनाः | भवन्तः सर्वे, स्वस्थाः सन्तु, देशस्य च कृते सक्रियाः भवन्तु | अनेकशः धन्यवादाः |
****
[भाषान्तरं – डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
अणुप्रैषः – baldevanand.sagar@gmail.com
No comments:
Post a Comment