*************************
।। ॐ।। दिव्यगुणाः ।। ॐ।।
*************************
1.स्वाध्यायः-- -वेदवेदान्तशास्त्रपुराणादीनां नित्यं पठनम्, तेषां अहर्निशं सुविचारः हि
स्वाध्यायः इति नाम्ना ज्ञायते । वेदोपनिषद्-भगवद्गीता-पुराणादीनां
नियमितरूपेण अध्ययनद्वारा अस्मान्
स्वस्य व्यावहारिकजीवने दैवी-गुणानां
पालनाय अत्युत्तमा प्रेरणा लभ्यते ।
स्वस्य अघ्ययनम् आत्मनिरीक्षणं हि
स्वाध्यायः नाम्ना अभिधीयते । अनेन
आत्मसंयमाय ध्यानाभ्यासाय च स्थिरता प्राप्यते ।
2.तपः-शारीरिकस्तरेषु व्रतोपावासादीनाम् आचरणं हि तपः इति कथ्यते । अनेन तपसा शक्तिसञ्चयकारणात् आत्मविकाशः
सम्भवति ।
3.आर्जवम् -( सरलता )मनसा वाचा कर्मणा एकत्वं हि आर्जवम् इति नाम्ना
अभिधीयते ।
4.अहिंसा- स्वार्थवशात् अथवा द्वेषवशात् प्राणिभ्यः कष्टप्रदानं हि हिंसा नाम्ना अभिधीयते । तस्य अभावः हि अहिंसा अस्ति ।
5.सत्यम्- प्रमाणसिद्धम् अर्थं यथावत्
प्रकटीकरणं हि सत्यम् इति नाम्ना ज्ञायते ।
6.अक्रोधः- साधनास्थितौ केनापि
दुर्व्यवहारेण मनसि यः असन्तोषभावः
आगच्छति सः क्रोधः इति नाम्ना अभिधीयते ।तत्कालं तस्य भावस्य नियन्त्रणं हि अक्रोधः कथ्यते. 7.त्यागः- अहङ्कारस्य स्वार्थस्य वर्जनं हि त्यागः इति नाम्ना अभिधीयते ।
8.शान्तिः-परिस्थितिः दुःखदायिका
भवेत् तथापि मनसि यदि सन्तुलितभावः तिष्ठति तर्हि सा शान्तिः
नाम्ना ज्ञायते ।
9.अपैशुनम् - कस्यतित् नरस्य दोषदुर्वलतां अन्येषां स्ममुखे प्रकटीकरणं हि पैशुनम् कथ्यते ।पैशुनस्य अभावः हि अपैशुनम् अस्ति ।
10.दया-दुःख- कष्ट -पीडितानां प्राणिनां कृते कृपाभावः हि दया नाम्ना
अभिधीयते ।
******************************
No comments:
Post a Comment