*कर्मफलम्!*
एकदा एकः महाराजः तस्य त्रीन् मन्त्रिणः आहूय अवदत् भवन्तः सर्वे हस्ते स्यूतम् आदाय उद्यानं गत्वा स्यूतं पूरयित्वा उत्तमानि फलानि आनयन्तु इति।
तदा ते सर्वे महाराजस्य आदेशानुसारं एकैकं स्यूतं नीत्वा उद्यानम् अगच्छन्।
प्रथमः मन्त्री उत्तमानि फलानि चित्वा स्यूतम् अपूरयत्।
द्वितीयः मन्त्री अहं शीघ्रं तत् कार्यं समापयामि इति चिन्तयित्वा सः अधमानि उत्तमानि च फलानि सर्वाणि चित्वा स्यूतम् अपूरयत्।
तृतीयः मन्त्री अचिन्तयत् महाराजः तु न पश्यति अतः सः तृणैः वृक्षपत्रैः च स्यूतम् अपूरयत्।
एवं कृत्वा ते सर्वे स्वस्य स्वस्य स्यूतम् पूरयित्वा राजास्थानं प्रत्यागच्छन्।
महाराजः तदा तेषां स्यूतान् न अपश्यत् अपिच ते किम् आनीतवन्तः इतोपि न अपृच्छत्।
महाराजः तान् मन्त्रिणः एकमासाय कारागारे अस्थापयत् तान् अकथयत् च भवन्तः एकमासपर्यन्तं कारागारे तिष्ठन्तु स्वस्य स्वस्य फलानि खादित्वा च जीवनं रक्षन्तु इति।
महाराजस्य आदेशं श्रुत्वा ते सर्वे चिन्तिताः अभवन् परन्तु किं कर्तुं शक्यते महाराजस्य आदेशोऽयम्।
प्रथमः मन्त्री तेन आनीतानि उत्तमानि फलानि खादित्वा सः कारागारे स्थित्वा सुखेन कालम् अयापयत्।
द्वितीयः मन्त्री तेन आनीतानि उत्तमानि अधमानि च फलानि खादित्वा सः कारागारे बहुकष्टेन कालम् अयापयत्। अन्ते च तस्य महान् रोगः अभवत्।
तृतीयः मन्त्री यस्य समीपे खादितुं किमपि नासीत् यतोहि सः केवलं तृणानि वृक्षपत्राणि च आनीतवान् आसीत्।
अतः दिनत्रयम् अनन्तरं तस्य तृतीयस्य मन्त्रिणः कारागारे मृत्युः अभवत्।
इदानीम् अस्माभिः चिन्तनीयं यद् वयं अस्मिन् जीवने स्वस्य कृते किं सम्पादयामः येन अन्तिमे काले अस्माकं जीवनं सार्थकं भवेत्।
*ॐ नमः शिवाय ॐ* 🚩🙏
*-प्रदीपः!*
No comments:
Post a Comment