श्रीगणपतये नमः
*************
मन्दं मन्दं पदाब्जं पतति रणरणैर्मोदते दर्शनार्थी
मन्दं मन्दं महास्ये मधुमयहसनं राजते यस्य नित्यम्।
मन्दं मन्दं सुतत्त्वं वदति हितकरं देवताद्याः प्रहृष्टा
मन्दं मन्दं भजे तं मृदुतममनसा पातु मां विघ्नराजः।।
(रचयिता-श्रीव्रजकिशोरः)
No comments:
Post a Comment