अद्यतनः महामारिरोगः कोरोना-
'कोरोनावायरस' इति विषाणुजन्य-महामारि-रोगः सम्प्रति विश्वे सर्वत्र व्यापकतया प्रसृतः अस्ति । इदानीं जनानां मुखे केवलं 'कोरोना'--, 'कोरोना' इत्येव श्रूयते । एतस्य भयावहता, जीवनस्य अनिश्चतयता च दिनाद्दिनं केवलं वर्धमाना एव दृश्यते ।
विश्वे सर्वेषु अपि क्षेत्रेषु महती क्षतिः दरीदृश्यमाना अस्ति । शिक्षा, वाणिज्यम्, कृषिः, उद्योगः इत्यादिविषयेषु सर्वत्र हानिरेव परिलक्ष्यते । यातायातम्, जन-संयोगः, सम्पर्कः इत्यादिकं सर्वमपि स्तब्धं जातमस्ति अधुना । कर्मोद्योगादिविषयेभ्यः सर्वेषां निवृत्तिः इव स्थितिः । एतस्मात् रोगात् कथम् आत्मरक्षणं संभवेत् इत्येव प्रत्येकं जनस्य मनसि गम्भीरपूर्णा मुख्यचिन्ता, एतद्रोगः एव सद्यः सर्वेषु क्षेत्रेषु नितरां बाधकोस्ति । तस्य प्रतिषेधकौषधमपि इतः पर्यन्तं नाविष्कृतम्, यत् तत् दुःखस्य विषयोऽयं सर्वेषाङ्कृते । अतः जनाः दिग्भ्रान्ताः, केवलं किंकर्तव्यमूढाः तमसावृताः चैव दृश्यन्ते सर्वत्र । तथापि जीवने या कापि परिस्थितिः आगच्छेत् नाम, ततः धैर्यच्युतिः न कार्या केनापि, स्वकर्तव्यमेव चिन्तनीयं सर्वदा इति ।
-- नारदः, ०७/०८/२०.
No comments:
Post a Comment