*वाक्येषु क्रियायाः प्रधानता*
~~~~~~~~~~~~~
बहुकालेन अध्यापयता मया अनुभूतः यत् वाक्येषु क्रियायाः प्रधानता भवति। वस्तुतः वाक्यस्य स्थितिः परिवारवद् दृश्यते। वाक्येषु क्रिया कर्तुः पत्नी , कर्ता च क्रियायाः पतिः भवति। तस्मिन् वाक्ये विद्यमानाः अन्ये कर्मकरणादयः पुत्रपुत्री-आदिवद् भवन्ति। वाक्येषु क्रिया अभिहितावस्थायां स्वपतिं कर्तारं प्रथमस्थाने निदधाति अर्थात् सप्तसु विभिक्तिषु प्रथमाविभक्तौ निदधाति उक्तमपि- *तिङ्समानाधिकरणे प्रथमा* । स्वयं च क्रिया वाक्येषु पतिव्रता नारी इव कर्तुः अनुसारेण चलति। वाक्यरूपिगृहेषु इयं स्थितिः तत्समयस्य (तदानीन्तनस्य)विद्यते यदा अनयोः दम्पत्योः परस्परं वार्तालापं भवति सौहार्दस्य च वातावरणं भवति । एवमेव वाक्यं *कर्तृवाच्यम्* इति नाम्ना ज्ञायते। *यथोदाहरणम् -(12 लिखति) अर्थात् 1-रामः 2-लेखं -लिखति*।
*कर्मवाच्यम्* -यदा पत्नी पतिः इत्यनयोः कदाचित् परस्परं कलहो जायते तदा पत्नीरूपिणीक्रिया स्वपतिरूपिकर्त्रा सह वार्तालापं न करोति। अर्थात् स्वपतिं परित्यज्य तं च तलाकं दत्त्वा कर्मणा सह वार्तालापं कर्तुं आरभते। तदा क्रियया उक्तकर्मणि प्रथमा विभक्तिः भवति क्रिया च स्वरूपं परिवर्त्य कर्मकर्तुः अनुसारेण( लिख्यते इव )चलति। तदा तस्याः क्रियायाः अनुक्ते परित्यक्ते च पूर्वस्मिन् पत्यौ राम इति कर्तरि कर्तृकरणयोस्तृतीया इति सूत्रेण तृतीया विभक्तिः विधीयते। क्रिया च सदैव आत्मनेपदे चलति। *यथा - (31लिख्यते ) अर्थात् 3-रामेण 1-लेखः,लेखौ, लेखाः -लिख्यते,लिख्येते, लिख्यन्ते*।
*भाववाच्यम्* --यदा क्रियायाः द्वितीयः पतिरपि कर्मकर्ता म्रियते तदा सा वाक्यरूपिगृहे विधवा (एकाकिनी) भूत्वा स्वतन्त्रतया विचरति। स्वगृहे एकाकिनी भूय नैकेषु भावेषु एव अहर्निशं विचरति। तदा सा कर्मकर्तुः अभावे सदैव प्रथम-पुरुषस्य एकवचने एव प्रयुज्यते एतस्मात्कारणादेव अस्मिन् वाक्ये भावस्य अर्थात् क्रियायाः एव प्रधानता भवति। *यथा -(3 हस्यते ) 3- रामेण रामाभ्यां रामैः वा हस्यते* । कर्मवाच्ये भाववाच्ये च क्रियायाः प्रयोगः सदैव आत्मनेपदे एव भवति यतोहि द्वितीयविवाहानन्तरं तु वाक्ये गृहे वा क्रियायाः पत्न्याः वा आत्मनः प्रधानता जायते तत्पुनः तस्याः द्वितीयः पतिः सर्वदा तदनुसारेणैव चलति तस्याः अङ्गुल्याः संकेते एव नृत्यति इति।
*(डॉ नारायणदेवश्शास्त्री भरतपुरम्)*
06/08/2020
No comments:
Post a Comment