Wednesday, November 13, 2019

Selfie- Sanskrit joke

माता पुत्रेण सह दूरवाण्या रे पुत्र! त्वं शीघ्रं गृहम् आगच्छ! 

किमर्थं मातः? किम् अभूत्? 

वध्वाः  पक्षाघातरोगः स्यात्! 
तस्याः मुखं वक्रं जातम् अस्ति! 
नेत्रद्वयम् उपरि अभूत्! 
तस्याः ग्रीवा च वक्रा जाता अस्ति! 

अहो मातः! अस्तु अहम् अवगतवान् अस्मि! भवती तां त्यजतु, तां बाधाप्रधानं मा कार्षीत्! सा इदानीं स्वस्याः चित्रं दूरवाण्या गृह्णाति!
*-प्रदीपः!*

No comments:

Post a Comment