*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
✒मङ्गलवासरः आषाढशुक्लसप्तमी (09-07-19)📚
✍प्रस्तावविषयः-- वाट्साप् सदःसु संस्कृतसेवा📖
ग्रामे ग्रामे नगरे नगरे संस्कृतभाषा जनभाषा
भवेद्धि सन्ततमस्माभिर्लेखनभाषणश्रवणविधाने।।
--स्वीयम्।
संस्कृतसेवा नाम संस्कृतस्याध्ययनं अध्यापनञ्च। पूर्वस्मिन् दिनेषु केवलं प्रत्यक्षेणैव तथा अध्ययनं अध्यापनपि कर्तुं शक्नुमः। अध्यापकाः अध्येतारश्च कदाचित् समयेषु , प्रवासेषु च सानुकूल्यतां न प्राप्यन्ते स्म ।तथापि ते निष्ठया अध्ययनं कुर्वन्ति कारयन्ति स्म च। तदानींकाले सर्वेऽपि देवभाषाभिज्ञाः अभूवन्निति कारणात् संकल्पसिद्धाः भवन्ति स्म। अध्येतारः अध्यापकाश्च सुदृढसंकल्पिनः भवेत्तर्हि संस्कृताध्ययनं साध्यते हि।
अद्यतनीये काले प्रायशः सर्वेऽपि पाश्चात्यविद्याव्यामोहिताः दृश्यन्ते। संस्कृतानुरागिणः न्यूना एव। तेऽपि अस्माकं सविधौ समीपे न हि वर्तन्ते। कथं संस्कृतव्यवहारं करिष्यामः तर्हि? आधुनिकसांकेतिकविधाने वाट्साप् अत्यन्तं उपयुज्यते। संस्कृतपिपासकानां तृष्णां पूरयन्ति वाट्सप् गणाः। सर्वस्मिन् जगति वर्तमानाः देवभाषानुरागिणः, विद्वांसः, अध्येतारः, मार्गदर्शकाश्च एषु गणेषु संस्कृतज्ञानस्यादानप्रदानं कुर्वन्ति। तस्मात् मत्सदृश्यः गृहिण्यः या वर्तन्ते तासां महदुपकाराय भवन्ति समूहाः। व्यवसायिनः, विद्यार्थिनः ....सर्वेऽपि वाट्साप् समूहेभ्यः संस्कृतसेवां कर्तुं शक्नुवन्ति।
लेखनसामर्थ्यं विदुषां सूचनया वर्द्ध्यते। निःसंकोचेन वदामश्चेत् परस्परव्यवहारेण सम्भाषणकौशलमपि प्राप्नुमः। अत्र ईर्ष्यासूयाभ्यां स्थानमेव न दृश्यते। यतो हि अस्मिन् वाट्साप् जगति अस्मदीयभावनैव विद्यते।
संस्कृतानुरागिणः दूरप्रान्तेषु वर्तन्ते चेदपि वाट्साप् भाग्यात् सान्निध्यं अनुभूयते।
--बाला...🙏🌷✍️
No comments:
Post a Comment