नमः श्रीव्यासाय
*************
आसीच्छ्रीव्यासदेवो नवरसकुशलः शास्त्रतत्त्वस्य वक्ता
देवर्षीणां प्रसादात् सकलपुरगता शेमुषी भासतेस्य।
तेनायं भारतादिं विविधगुणयुतं दत्तवान् ज्ञानराशिं
वन्दे तज्जन्मघस्रे गुरुकुलतिलकं मे गुरून् चाद्य भक्त्या।।
(व्रजकिशोरत्रिपाठी)
No comments:
Post a Comment