तुमर्थाच्च भाववचनात्
चतुर्थी विभक्ति: भवति।
घञ् , क्तिन् , ल्युट् .. इते भावे प्रत्ययाः ।
तुमुन: अर्थ: इव अर्थ: यस्य तस्मात् इति । भावः=क्रिया । उच्यते अनेन इति वचनः, भावस्य वचन: भाववचनः, तस्मादिति । चतुर्थी भवति।
1.बाल: पठितुं विद्यालयं गच्छति। (तुमुन् )
2.बाल: पठनाय विद्यालयं गच्छति। ( पठनं ल्युट् भावे )
3. बालः लेखितुं लेखनीं स्वीकरोति। (तुमुन्)
4.बालः लेखनाय लेखनीं स्वीकरोति। (लेखनं ल्युट् )
5. सः उन्नतस्थानं प्राप्तुं कार्यं करोति। (तुमुन्)
6.सः उन्नतस्थानस्य प्राप्तये कार्यं करोति। ( प्राप्ति: क्तिन् - भावे )
7. सस्यानि वर्धयितुं श्रमं कुर्मः।
8.सस्यानां वृद्धये श्रमं कुर्मः। ( वृद्धिः क्तिन् )
9. राजा यष्टुं ( यागं कर्तुं) सज्जतां कृतवान् ।
10.राजा यागाय सज्जतां कृतवान् । (यागः घञ् भावे )
11. जननी पक्तुं गच्छति।
12.जननी पाकाय गच्छति। ( पाक: घञ् भावे )
No comments:
Post a Comment