अभिनन्दनीयो वीरनन्दनो नः।
राष्ट्रे रिपूणां जयगाननादै स्स्वमातृभूमेर्बहुमानदायी।
दृढव्रती राष्ट्रधनोद्य धन्यः
कुलावतंसोस्त्यभिनन्दनोयम्।।१
धन्यासि मातास्य हि जन्मदात्री
पितापि संस्कारक एव धन्यः।
पुत्राप्तिसौख्यं सुलभं धरायां
संस्कारभाक्पुत्रसुखं तु कुत्र।।२
पाग्भूमिमध्ये पतितोपि वीरः
मिग्यानहानं च विधाय तेषाम्।
निःशङ्कमेव स्वजयं चकार
श्रीमानभिर्नन्दकरो जनानाम्।।३
स्तब्धास्तदाभारतवासिनस्ते,
व्यस्ताः हरिस्तुतिपरास्तदर्थम्।
सोढ्वा रिपूणां बहुलाञ्छनं सो
गायतज्जयं स्वप्रियमातृभूमेः।।४
No comments:
Post a Comment