वर्णान्तरविवाहः!
सभायै नमः!अस्माकं देशे भिन्नसम्प्रदायाः संस्कृतयश्च सन्ति किन्तु मूलं तावत् वैदिकमतमेव!एवं वैदिकमते आरम्भकालतः वर्णव्यवस्था सुदृढा वर्तते!अस्याः प्रवर्तकः निर्माता भगवानेव (चातुवर्ण्यं मया सृष्टं....)इयं व्यवस्था न केवलं मानवेषु अपि च तरुशिलादिष्वपि अस्ति!तत्प्रयोजनमपि अक्तं "गुणकर्मविभागशः.."इति! एतेषु उच्चनीचभेदः अपि शिष्टैः नाद्रियते भगवतः निष्पन्नत्वात् !एवं सति कश्चन जीवः अनेन मार्गेन तरेदिति निश्चित्य भगवता तत्र (वंशे अथवा कुटुम्बे) जन्म दीयते )!अतः वर्णः भगवतः निर्णयः तरणार्थम् !इदानीं विवाहव्याजेन यदि वर्णसाङ्कर्यं क्रियेत तर्हि भगवता दत्तमार्गतः भ्रष्ट इत्येव ननु!न केवलं युक्त्याः प्राचीनाः सिद्धाः ज्येष्ठा अपि वर्णसाङ्कर्यमनिन्दन् !तेन यस्मिन् गोत्रे अस्माभिः जातं तस्य ऋषिः परम्परायाः विच्छिन्नता भवति!लोके कस्यचित् रुग्णः रुधिरमपेक्षितं चेत् तत्र केवलं तद्युक्तसमुदायकं (blood group) रुधिरमेव स्वीक्रियते किल रुधिरं समेषां समानं इति कृत्वा यस्यकस्यचित् न स्वीक्रियते किल एवमेव वर्णसाङ्कर्यदोषः अप्रत्यक्षः प्रमादकरः!अतः सावधानैः भाव्यम् !अर्जुनःस्वविषादं "सङ्करस्य च कर्ताऽहं...' स्त्रीषु दुष्टाषु वार्ष्णेय" इति एतदेव न्यवेदयत् !अतः सर्वथा परिहर्तव्यः अयं दोषः!
एतादृशविवाहस्य लौकिकप्रयोजनानि अपि स्युः नाम किन्तु परमार्थदृष्ट्या देशव्यवस्था दृष्ट्याः तान्नाहं गणयामि!स्वस्ति!
No comments:
Post a Comment