*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
✨रविवासरः फाल्गुनकृष्णचतुर्थी (24-03-19)💥
✍प्रस्तावविषयः-- विद्युच्छक्तिः⚡
प्रचोदितानां सूक्षमतरकणानां चलनकारणात् निर्मितम् ऊर्जमेव विद्युच्छक्तिः। विशेषसाहचर्येषु तन्मात्रासु विरुद्धस्वभावान् कणान् अन्विष्य वैद्युतस्वभायुक्त-उपाणवः प्रकाशवेगेन प्रवहन्ति एतेनैव विद्युत् प्रवाहो भवति। प्रपञ्चे सर्वेषु वस्तुषु विद्युत्गुणो भवतीति शास्त्रमतम्। इदम् ऊर्जं वैद्युतचालकमाध्यमानाम् आधारेण एकस्मात् स्थानात् अपरं स्थानं प्रति नेतुं शक्नुमः एतदेव वैद्युतप्रवाहः। विद्युत्शक्तेः विषये पुरातनकाले एव भारतीयानां ज्ञानम् आसीद् इति अनुमानं कर्तुं शक्नुमः यतः साहित्ये तदनुगुणम् वाक्यप्रयोगं द्रष्टुं शक्यते।कणादादि महर्षय अणोः गुणान् सम्यक् निरूपितवन्तः। आधुनिके काले विद्युत्शक्तेः प्रायोगिक-उपायाः सर्वत्र विद्यते अतः वैद्युतिः नित्यजीवनस्य आधारभूता जाता। विद्युच्छक्ति अग्निरिव उपकारप्रदं तथैव आपत्करञ्च।।
अस्य ऊर्जस्य आवश्यकता गृहेषु यन्त्रागारेषु कार्यालयेषु वाहनेषु वैद्यालयेषु शालासु विविधेषु यन्त्रेषु एवं प्रकारेण सर्वत्र अस्तीति जानीमः। एतदर्थम् अस्य निर्माणं प्रसारणञ्च मुख्यं कार्यम्। देशस्य पुरोगमनार्थं वैद्युतक्षेत्रे परिपूर्णविजयम् अत्यन्तापेक्षितम्।।
विद्युत्शक्तेरुत्पादनविधयः
❶ जलप्रवाहे बृहदाकार-लोहव्यजनानि स्थापयित्वा तेषां भ्रमणशक्तिः वैद्युतोत्पादनयन्त्रे निवेशयति अनेन कान्तिकमण्डले तीव्रगत्या यन्त्रभागानाम् अपि भ्रमणं भवति तस्मात् विद्युत्शक्तिः प्राप्यते। एषा एव पद्धतिः अस्माकं देशे आधिक्येन वर्तते प्रायः सार्धषट्सहस्राधिकाः जलवैद्युतोत्पादनस्थानानि भारते सन्ति।।
❷ समुद्रतरङ्गेभ्यः पूर्वोक्तरीत्या उत्पादनं प्रचलति। एषा रीतिः विदेशेषु बहुत्र सन्ति भारतेऽपि भाविकाले आधिक्येन भविष्यति इति मन्ये।।
❸ सूर्यतापात् वैद्युतिनिर्माणम् अपरः मार्गः। एषा पद्धतिः गृहेषु रेलस्थानकेषु कार्यालयेषु अपि लघुतररीत्या उत्पादनदृष्ट्या प्रचारे अस्ति। एतदर्थं solar panel इत्यस्य तापवैद्युतनिर्माणफलकस्य आवश्यकता अस्ति ।।
❹ वायुप्रवाहात् ऊर्जोत्पादनं तारतम्येन प्रकृतेः संरक्षणदृष्ट्यापि अनुकूलोपायः। भारते इदानीमेव प्रचारे अस्ति।।
❺ अाणववैद्युतनिर्माणम् अपि भारते अस्ति (प्रायः ७ केन्द्रेषु चलति)। परमाणोः स्फोटनात् ऊर्जं प्राप्य तदुपयुज्य विद्युच्छक्तिम् उत्पादयति।।
❻ तापवैद्युतिनिलयाः -
विविधानां इन्धनानां ( शिलातैलम्, अज्झलादि पदार्थानां दाहनम् ) ज्वालनं कृत्वा तीव्रजलबाष्पधारायाः निर्माणं क्रियते तदुपयुज्य उत्पादनयन्त्रचालनं भवति।ऊर्जोत्पादने एतादृशानि केन्द्राणि एव भारतस्य मुख्यावलम्बस्थानानि ।।
ऊर्जन्यूनतायाः परिहारार्थं तस्य रक्षणं सदुपयोगञ्च प्रमुखं कार्यम् एतदर्थं सर्वे देशवासिनः चिन्तयेयुः। विकासमार्गे तीव्रवेगेन अग्रे प्रयाणं कर्तुम् इतोऽपि वैद्युतोर्जस्य स्वायत्तीकरणम् आवश्यकं तथापि प्रकृतेः तुलनात्मकधिया अनुकूला मार्गा एव स्वीकरणीयाः। अनेनैव सुस्थिरं सर्वतोमुखविकासं प्राप्तुं शक्नुमः।।
- सुनीशः
No comments:
Post a Comment