Tuesday, April 2, 2019

Chandana -Sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 
🕉शनिवासरः फाल्गुनशुक्लतृतीया (09-03-19)💖
✍प्रस्तावविषयः-- चन्दनः👍


चन्दनम् इति श्रवणमात्रेण सुगन्धमेव मनसि आगच्छति।आनन्दं जनयति इत्येव चन्दनपदस्य तात्पर्यार्थः। सुगन्धद्रव्येषु मुख्यम् अन्यतमं चन्दनम्।अस्माकं देशे प्राचीनकालादेव  चन्दनस्य उपयोगः क्रियते मुख्यतया पूजादिकार्येषु चन्दनस्य प्रामुख्यं अस्ति। अस्य रसः कषाय -मधुर -तिक्तादि मिश्रः। गन्धसारः मलयजः भद्रश्री: इत्यादीनि पर्यायपदानि चन्दनस्य।। 

चन्दनं शीतलतां ददाति। यथा भस्म भगवतः परमेश्वरस्य प्रियलेपनवस्तु तथैव चन्दनं विष्णोः प्रियं द्रव्यमिति कथ्यते।एतदर्थं नित्यं स्नानानन्तरं चन्दनं ललाटे स्थापयन्ति वैष्णवाः। चन्दनलेपनेन शरीरे शीतलिमां सौख्यञ्च प्राप्नुमः। आयुर्वेदानुसारं चन्दनवृक्षः औषधगुणयुक्तोऽस्ति।। 

पूजायां चन्दनस्य उपयोगः बहुविधाः सन्ति। षोडशोपचारपूजायां अर्चकाः चन्दनजलं बहुवारं मूलमन्त्रसहितं वा अन्यैः मन्त्रैः सहितं वा पुष्पगुच्छेन देवाय समर्पयन्ति। भगवतः अलङ्कारार्थं चन्दनम् उपयुज्यते। मूर्तेः मुखे वा सम्पूर्णे शरीरे वा चन्दनालङ्काराः क्रियन्ते। केरले मन्दिरेषु एतादृश अलङ्कारः "कळभच्चार्त्त् " इति नाम्ना प्रसिद्धो वर्तते एतदर्थं चन्दनं कुङ्कुमपुष्पं कर्पूरं पाटलजलञ्च मिश्रणं कृत्वा कळभम् इति विशिष्टं सुगन्धयुक्तं द्रव्यं निर्माणं कुर्वन्ति। कलशाभिषेकपूजासु चन्दनेन मूलमन्त्रसमेतं कुम्भानां लेपनं तथैव चन्दनजलपूरणं च भवति। देव्याः प्रियवर्णः रक्तवर्णः ननु अतः देवीमन्दिरेषु रक्तचन्दनस्य उपयोगः अपि दृश्यते। तान्त्रिकपूजासु अर्चकाः भस्मचन्दनानां लेपनेन विना पूजा न करणीया इति विधिरस्ति।। पूजावसाने पुष्पाञ्जलिर्भवति तदानीं पुष्पाणाम् उपरि चन्दनजलं प्रोक्षणं क्रियते। तन्त्रशास्त्रानुसारं चन्दनं पृथ्वीतत्त्वं वहति गन्धः भूमेः गुणः खलु अतयेव मन्त्रे "लं पृथ्व्यात्मना गन्धं कल्पयामि " इत्युच्चार्यते।। 


चन्दनकाष्ठम् अद्यत्वे अतीव मूल्ययुक्तम् अस्ति इदानीं किलोपरिमितयुक्तकाष्ठस्य मूल्यं दशसहस्राधिकरुप्यकाणि भवन्ति। चन्दनतैलं तु इतोऽपि मूल्ययुक्तम्। भारतीयवीक्षणे चन्दनवृक्षः पुण्यवृक्षः। चन्दनकाष्ठानाम् उपयोगेन अद्यापि माला शिल्पानि सुगन्धवर्त्तिका इत्यादीनां निर्माणं प्रचलन्ति। अस्माकं पुराणेतिहासलेखेषु चन्दनस्य चन्दनवनस्य च वर्णनम् अस्ति।। 

चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः।  चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः।। 

एवं च भाषते लोकश्चन्दनं किल शीतलं। 
पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ।।

इत्यादि मनोहरप्रयोगैः सुभाषितकाराः अपि चन्दनस्य महत्त्वं घोषितवन्तः।। 


धन्यवादाः 
~ सुनीशः

No comments:

Post a Comment