*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
📺शुक्रवासरः फाल्गुनकृष्णनवमी (29-03-19)😹
✍प्रस्तावविषयः-- कार्टून्-चित्रम्👻
कार्टून् इत्यस्य पदस्य अर्थः "हास्यचित्रम्" इत्येव। सहस्रवाक्यानां तुल्यं भवति एकं चित्रम्। चित्राणि सर्वेषाम् अन्तरङ्गे दर्शनमात्रेण अनुगुणस्पन्दनं कारयन्ति। चित्ररचना महत्तरा एका कला भारतीयाः तस्यां कलायां चिरप्रतिष्ठिताः निपुणाश्च । कार्टून् केवलं मनोरञ्जनार्थम् एव नास्ति देशे विदेशे च कार्टून् आधारीकृत्य वाणिज्यमपि भवति। "छोटा भीम्" "स्पाइडर मैन" "दोरा"
इत्यादीनां कार्टून् द्वारा- प्रतिष्ठितानां कथापात्राणां क्रीडकानि बालाः बहु इच्छन्ति अतः तेषाम् आधारेण प्रचुरव्यापाराश्च भवन्ति।।
कलरूपैः सामूहिकावस्थायाः प्रतिफलनं क्रियते। कार्टून् चित्राणि इदानीं सर्वत्र प्रसिद्धानि पत्रिकासु सामूहिकमाध्यमेषु च तानि सर्वेषां श्रद्धाम् आकर्षयन्ति। "अतिशयरसः" अस्याः कलायाः मुख्याधारः। कार्टून् निर्माणे कलाकाराणां रचनासामर्थ्यं व्यक्तिनिरूपणगुणः नर्मबोधः समकालीनविषयज्ञानम् इत्यादीनां प्रतिस्पन्दनम् अवश्यं द्रष्टुं शक्नुमः।।
कदाचित् मर्यादायाः सीमाम् उल्लङ्घ्य समाजे कालुष्यं जनयन्ति कार्टून् चित्रकाराः। आदरबिम्बानाम् अपमाननं ज्ञात्वा वा अज्ञात्वा वा कृत्वा बहवः चित्रकाराः विवादपुरुषाः जाता: । साङ्केतिकविज्ञानस्य पुरोगत्याः कारणेन अद्यत्वे चलनचित्रेष्वपि कार्टून् चित्राणां निर्माणं निरन्तरं भवति। बालकाः एतेषाम् आस्वादनम् अधिकतया कुर्वन्ति।Tom and Jerry सदृशं हास्यकार्टून् सर्वेषां मनोरञ्जनाय भवति। बालकानां मानसिकविकासे एतेषां प्रभावो भवति अतः चित्राणाम् गुणपाठाः आशयश्च ज्येष्ठैः निरूपणीयाः।।
Little Krishna इत्याख्यं कार्टून् चलनचित्रं कृष्णलीलाः मनोहररीत्या उपस्थापयति तादृशानि बाल्ये एव बालानां मनसि भक्तिभावं जनयन्ति। क्रियात्मक-विमर्शनदृष्ट्या गुणप्रवृद्धदृष्ट्या च नूतनानि बहुलानां कार्टून्- चित्राणाम् आविष्कारो भवेत्।।
- सुनीश् नम्बूतिरि
जालपुटम् - suravaniblog.wordpress.com
No comments:
Post a Comment