Friday, April 26, 2019

Butter-Sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
🥛गुरुवासरः फाल्गुनकृष्णाषटमी (28-03-19)🍵
✍प्रस्तावविषयः-- नवनीतम्🍚


नवनीतम् इति गव्यविशेषः। नवं नीयतेऽनेनेति नवनीतम्। नवोद्धृतम् सरजम् मन्थजम् हैयङ्गनीवम् दधिजम् सारम् इत्यादीनि पर्यायपदानि नवनीतस्य। नवनीतम् इति श्रवणेन भगवतः कृष्णस्य स्मरणा एव आगच्छति यतः कृष्णो नवनीतप्रियः नवनीतचोरश्च
(नन्दात्मजाय नवनीतमुषे नमस्ते, व्रजे वसन्तं नवनीतचोरम् )। करुणालुः कृष्णः गोपीनां हस्तेभ्यः किञ्चित् नवनीतं स्वीकृत्य तासां जन्मजन्मान्तरपापानि हृतवान् खलु।। 

 किमर्थं भगवान् नवनीतचोर इति प्रसिद्धो जातः कृष्णस्य नवनीतचौर्यस्य पृष्ठतः रहस्यं तत्त्वं किं इति ज्ञातुं एकदा शिष्यः गुरुं पृष्टवान् शिष्यस्य संशयनिवारणार्थं भागवतोत्तमः गुरुः एवमुक्तवान्। 
 
अम्बायाः क्षीरादेव शरीरपोषणम् आरब्धम् अत अस्माकं शरीरं क्षीरेण पूरितं वर्तते। क्षीरं तु नश्वरमेव तस्य रक्षणार्थम् दधिनः मिश्रणं भवेत् ननु। एवं क्षीरमय-नश्वर-शरीरस्य रक्षणं भक्तिर्नाम्ना-दधिस्पर्शेन एव भवेत् यदि किञ्चित् दधिनः मिश्रणं जायते तर्हि भक्तिरसेन शरीरस्य मनसश्च परिणामो भवति अनेन कालान्तरे चित्तमथनेन शुद्धतां प्राप्य आत्मज्ञानम् इति नवनीतम् उत्पद्यते। आत्मज्ञानम् उत्पादिते सति भगवान् स्वयमेव तत् चोरयित्वा अस्मान् मुक्तिपदं नेष्यति इति तत्र गूढार्थः।। 

अद्यापि मन्दिरेषु आधिक्येन कृष्णमन्दिरेषु नवनीतनैवेद्यं नवनीतालङ्काराः इत्यादयः भवन्ति।। 


धेनोः नवनीतम् इतोऽपि विशिष्टं भवति। नवनीतम् उष्णीकृत्य एव आज्यं निर्मीयते।वैदिकाचरणेषु आज्यम् अत्यावश्यकम् नवनीतस्य गुणः शीतलः। नवनीतं मेधाशक्तिं वर्धयति। शारीरकान्तेः बलस्य च वर्धनं करोति नवनीतम्। नवनीतस्य उपयोगेन वातं पित्तं क्षयम् इत्यादयः नश्यन्ति। नेत्रयो आरोग्यं वर्धयति नवनीतम्। अनेकाः औषधगुणाः सन्ति इत्यनेन नवनीतसेवनात् लाभा एव भवन्ति। किन्तु जनाः मेदवर्धकमिति मत्वा नवनीतम् निकुरुते। मन्थकस्योपरि विद्यमानं नवनीतं बुध्दिदायकम् इति अस्माकं प्रदेशे विश्वासः बाल्ये तस्य आस्वादनं बहुधा कृतवान् इति अद्यापि स्मरामि! 

~ सुनीशः

No comments:

Post a Comment