*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
😱सोमवासरः फाल्गुनशुक्लपञ्चमी (11-03-19)🤥
✍प्रस्तावविषयः-- आश्चर्यभावः😳
मुखं मनसः दर्पणः। मनसि यो भावः विद्यते सो भावः मुखे प्रतिफलति। नाट्यशास्त्रे विविधाः भावाः सुष्ठु निरूपिताः। आश्चर्यभावः नवरसेषु अन्यतमः। अत्याकर्षभावोऽयं सर्वेषां मनसि आह्लादं जनयति। विविधवर्णयुक्तपारितोषिकपेटिकां यदा शिशुः उद्घाट्यते तदानीम् अयमेव भावः तस्य मुखे द्रष्टुं शक्नुमः। आश्चर्यो नाम अद्भुतरसः एतदेव विस्मयरसः। भगवतः स्वरूपम् आश्चर्यं जनयति गीतोपदेशसमये भगवतः विश्वरूपं दृष्ट्वा अर्जुनः अतीवविस्मितो जातः। एवं प्रकृतेः रमणीयता अपि आश्चर्यं जनयति।।
पुरा महाभारतकथासु यक्षः धर्मपुत्रं प्रति जगति अत्याश्चर्यकार्यं किमिति पृष्टवान्। तस्य उत्तररूपेण स एवम् अवोचत्।।
अहन्यहनि भूतानि गच्छन्तीह यमालयम् |
शेषाः स्थिरत्व मिच्छन्ति किमाश्चरन मतः परम् ||
अर्थात् नित्यं लोकेऽस्मिन् बहवः प्राणिनः यमालयं गच्छन्ति तथापि अवशिष्टाः स्थिरत्वं भवामि इति चिन्तयन्ति पारमार्थिकं तत्त्वं पुरतः दृष्ट्वाऽपि तेषां मनोभावस्य परिवर्तनं नास्तीति तात्पर्यार्थः। अयमेव परमाश्चर्यम्।। कदाचिद् अप्रतीक्षितघटनायाः प्रभावेण अस्माकं मनसि आश्चर्यम् अनुभवामः।।
~ सुनीशः
No comments:
Post a Comment