Courtesy:Dr.krishnamoorthy
येन कर्माण्यपसो मनीषिणो
यज्ञे कृण्वन्ति विदथेषु धीराः ।
यदपूर्वं यक्षमन्तः प्रजानां
तन्मे मनः शिवसङ्कल्पमस्तु ॥ २ ॥
मनीषिणः मननशीलाः, धीमन्तः, धीराः धैर्यशालिनः, विदथेषु यत्र वेदवेत्तारः, ब्रह्मवेत्तारः, योगिनः, यज्ञे (यज्ञयागादिषु समागतेषु सत्सु /) यज्ञयागादिषु समागताः तत्र, येन येन कारणेन अपसः यज्ञतुल्यानि पवित्रतमानि, कर्माणि कृण्वन्ति कर्माणि समाचरन्ति, प्रजानाम् अन्तः जीविनाम् अन्तरङ्गे यद् अपूर्वम् अतुल्यम्, असदृशम्, अतुलनीयम्, यक्षम् यजनीयं, याज्यं, पूजनीयं, पूज्यम्, अव्यक्तम्, अज्ञातम् (x) आत्मतत्त्वम् अस्ति, तत् मे तस्मात् प्रेरितः मम, मनः चित्तम्, शिवसङ्कल्पम् शुभचिन्तनायुक्तम्, अस्तु भवतु ॥
No comments:
Post a Comment