-ध्यानमन्त्रः-
शान्ताकारं भुजगशयनम्,
पद्मनाभं सुरेशम्,
विश्वाधारं गगनसदृशम्,
मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनम्,
योगिभिर्ध्यानगम्यम्,
वन्दे विष्णुं भवभयहरम्,
सर्वलोकैकनाथम्।।
यस्य आकृतिः शान्तः, यः शेषनागस्य शय्योपरि शयानः, यस्य नाभौ कमलपुष्पं विराजते, यः देवानाम् अपि ईश्वरः तथा अखिलजगतः आधारः, यः आकाशवत् सर्वव्याप्तः, नीलमेघः इव यस्य वर्णः, यस्य सर्वाङ्गं सुन्दरम्, यः योगिनां ध्येयः प्राप्तव्यश्च, सम्पूर्णजगतः यः स्वामी, यश्च जन्ममृत्युरूपभयस्य विनाशकः इत्येतादृशं लक्ष्मीपतिं कमलनेत्रं भगवन्तं श्रीविष्णुम् अहं सिरसा प्रणमामि।
✍️…..नारद उपाध्याय
No comments:
Post a Comment