ब्रह्माण्डपुराणे
अथ शृङ्गारशालस्यान्तराले सप्तयोजने । चिन्तामणिगृहं नाम चक्रराजमहालयः ॥ ३,३५.७० ॥
महालये पदं न्यस्तं महादेवेन धीमता । भूतानामनुकंपार्थं नास्तिकानां निदर्शनम् ॥ २,१३.८३ ॥
विरजे त्वक्षयं श्राद्धं पूर्वमेव महालये । नन्दायां विरजे चैव तथैव च महालये ॥ २,१३.८४ ॥
उमातुङ्गे भृगोस्तुङ्गे ब्रह्मतुङ्गे महालये । तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ॥ २,१३.८८ ॥
लिङ्गपुराणे
तदाप्यहं भविष्यामि गुहावासीति नामतः । हिमवच्छिखरे रम्ये महोत्तुङ्गे महालये ॥ १,२४.७७ ॥
सिद्धक्षेत्रं महापुण्यं भविष्यति महालयम् । तत्रापि मम ते पुत्रा योगज्ञा ब्रह्मवादिनः ॥ १,२४.७८ ॥
योगाभ्यासरताश्चैव हृदि कृत्वा महेश्वरम् । महालये पदं न्यस्तं दृष्ट्वा यान्ति शिवं पदम् ॥ १,२४.८१ ॥
मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः । गत्वा महालयं पुण्यं दृष्ट्वा माहेश्वरं पदम् ॥ १,२४.८३ ॥
तीर्णस्तारयते जन्तुर्दश पूर्वान्दशोत्तरान् । आत्मानमेकविंशं तु तारयित्वा महालये ॥ १,२४.८४ ॥
महाभारते
षष्ठकालोपवासेन मासमुष्य महालये । सर्वपापविशुद्धात्मा विन्द्याद्बहु सुवर्णकम् ॥३-?-४९॥
लक्ष्मीनृसिंहसंहिता
एकादशेन्द्रियेभ्यो या कन्या दानवनाशिनी । समुद्भूता महासाध्वी सैकादशी महालये ।।१-२४-२ ।।
No comments:
Post a Comment