Courtesy:Dr.Shivani Sharma
।। चित्रस्य व्याख्या ।।
💐💐💐💐💐💐
एकदा हि महर्षिः वै आसीदशान्तचेतसा ।
किं कारणमिति ज्ञातुं ध्यानार्थं स गतस्तथा।।१।।
स्नानं कृत्वा ह्युपविष्टः सरस्वत्यास्तटे यथा ।
मनसा हि स्मृता माता तेन मुनिवरेण च ।।२।।
अम्बितमे नदीतमे महादेवि सरस्वति ।
ज्ञानदेवि दयादेवि कारय दर्शनं हि माम् ।।३।।
श्रुत्वा हि वचनं तस्य साधकस्य तपस्विनः ।
प्रकटिता हि सा माता सर्वशुक्ला सरस्वती ।।४।।
त्वमुद्घाटय नेत्रे वै हे साधक महामुने ।
किं वाञ्छसि हि मत्त्वं वै वरं याचस्व हे सुत ।।५।।
श्रुता वै ऋषिणा वाणी नेत्रे चोन्मीलिते यथा ।
पुरतः मातरं दृष्ट्वा प्रासीदत् साधकस्तथा ।।६।।ओंकाररूपयुता माता श्रीवीणावादिनी तथा ।
हंसश्च वाहनं यस्याः तां ध्यायन्ति च योगिनः ।।७।।
सुशुभ्रवसनं यस्याः कण्ठे मुक्तावलिस्तथा ।
मोहयति जगत्सर्वं जगन्मातः नमोऽस्तु ते ।।८।।
तव दर्शनमात्रेण छिद्यन्ते सर्वसंशयाः ।
मूढा भवन्ति विद्वांसः विद्यादात्रि नमोऽस्तु ते।।९।।
अजा हि शाश्वती माता नित्या ज्ञानप्रबोधिनी ।
शान्तबुद्धिस्सदा मे स्याद् बुद्धिदात्रि नमोऽस्तु ते ।।१०।।
गायति मधुरं गीतं वाग्वल्गुवाक्यया ।
रञ्जयति जगत्सर्वं हे वाग्देवि नमोऽस्तुते ।।११।।
वर्णाक्षरैः कृता सृष्टिः सङ्गीतेन प्रसादिता ।
सर्वशास्त्रमयी माता हे शारदे नमोऽस्तुते ।।१२।।
आकाशाद् वै यथा वृष्टिः मह्यं ज्ञानं प्रदेहि च ।
श्लोकैरेव स्तुतिं कुर्यां हे मङ्गले नमोऽस्तु ते ।।१३।।
कार्यं लोकोपकाराय करिष्यामि दिने दिने ।
शक्तिं देहि सदा मातः शक्तिदेवि नमोऽस्तु ते ।।१४।।
वन्दिता देवताभिश्च सर्वैः महात्मभिस्तथा ।
प्रसीद त्वं शिवान्यां वै भक्तिप्रदे नमोऽस्तुते ।।१५।।
डा. शिवानी शर्मा, कुरुक्षेत्रम् ।
💐💐💐💐💐💐💐💐
No comments:
Post a Comment