-कामाख्याधाम-
असमप्रदेशस्य गुवाहाटीराजधान्यां नीलाचलपर्वतोपरि अवस्थितम् ब्रह्मपुत्रनदीपार्श्वे शक्तिपीठेषु अन्यतमं कामाख्यामन्दिरम् वर्तते। सतीदेव्याः एकपञ्चाशत्पीठेषु एतत् अन्यतमं पीठं यत्र च देव्याः योनिदेशः पतितः आसीत् इति पुराणादिषु वर्णितं प्राप्यते। दशषु महाविद्यासु इयं कामाख्या एकरूपा। किम्वदन्त्यनुसारं देवी स्वस्याः कामचरितार्थं कदाचित् अस्मिन् नीलाचलस्थाने एव महादेवेन सह रहसि मिलितवती आसीत्। इत्यतः अस्य स्थानस्य नाम कामाख्या इति जातम्। एतत् स्थलं तन्त्रसाधनार्थं विख्यातम्। बहोः दूरतः अपि भक्तजनाः देव्याः दर्शनार्थम् अत्र समायान्ति प्रतिदिनम्। अम्बुवासीमेला अत्रस्थं वैशिष्ट्यं वहति। तस्मिन् अवसरे जनानां सम्मर्दः अवलोकनीयः। आ भारततः विदेशेभ्यः अपि बहवः जटाधारिणः साधवः, साध्व्यः, तपस्विनः, साधकाः इत्यादयः अत्र सम्मिलिताः सन्तः स्वसाधनायाः तात्पर्यं प्रबोधयन्तः अन्यान् अपि तदर्थम् आकर्षन्ति प्रेरयन्ति च। सर्वैः अपि जीवने न्यूनतमम् एकवारं तु अत्र समागत्य स्वजीवनं धन्यं करणीयम्। अस्तु, शम्!
- ना. उपाध्यायः।
६/२/१९.
No comments:
Post a Comment