श्वश्रुर्निर्गच्छोक्तिन्यायः ।
------------------------------
भिक्षुः गृहम् आगच्छति । गृहे स्नुषा अस्ति । सा गच्छतु इति उक्त्चा तं भिक्षुकं प्रेषितवति । यदा भिक्षुकः गन्तुम् आरब्धवान् तदा श्वश्रुः आगतवती । सा भिक्षुकम् आहूतवति - अत्र आगच्छ इति। तदा भिक्षुकस्य मनसि सन्तोषः उत्पन्नः। सः चिन्तितवान् यत् किञ्चित् भिक्षां लभेत इति। परन्तु सा उक्तवती - एषा स्नुषा , नूतना आगता , "त्वं गच्छ" इति वक्तुं तस्याः किमपि अधिकारः नास्ति । अहं श्वश्रुः अस्मि । अहं गृहस्य स्वामिनि । अहमेव गृहस्य अधिकारिणी । अतः अहं वदामि त्वम् इतः निर्गच्छ ।अहं किमपि न ददामि इति । एवम् उक्त्वा सा तं भिक्षुकं ततः प्रेषितवती ।यत् कार्यं सरलरूपेण सुलभतया साधयति तत् निरुध्य तदेव कार्यं विषमरूपेण साधयति चेद् , क्लिष्टसाध्यं करोति चेद् तादृशे प्रसङ्गे एतस्य न्यायस्य प्रयोगं भवति ।
No comments:
Post a Comment