Friday, November 2, 2018

Rama soundarya Lahiri sloka -Sanskrit

_सार्वभौममहाकविविरचिता_
*॥ श्रीरामसौन्दर्यलहरी ॥*

*चन्द्रं तवाननसमं द्रुहिणो विधातुमेकैकया प्रतिदिनं कलया युनक्ति।*
*पर्वण्यवेक्ष्य स तयोर्विषमत्वमुच्चै रादर्शमाक्षिपति ता हि तथाधुनापि ॥३॥*

*पदविभाग:* 

चन्द्रं तव आननसमं द्रुहिण: विधातुम् एकैकया प्रतिदिनं कलया युनक्ति पर्वणि अवेक्ष्य स: तयो: विषमत्वम् उच्चै: आदर्शम् आक्षिपति ता: हि तथा अधुना अपि 

*अन्वय:* 
 (हे राम!) द्रुहिण: चन्द्रं तव आननसमं  विधातुं प्रतिदिनं एकैकया कलया युनक्ति । स: पर्वणि  तयो: उच्चै: विषमत्वम् अवेक्ष्य ता: तथ‍ा आदर्शम् अधुना अपि आक्षिपति हि ।

~ ✍ *शरवण:*

No comments:

Post a Comment