तित्लीचण्डी
**********
(१)
इयं चण्डी तित्ली प्रविशति धरां घोरवपुषा
तदा दुष्टा वृक्षान् मडमडमडं चाशु कुरुते।
गृहं विद्युत्स्तम्बं कटकटकटं सं-रटति च
भयान्मेघस्तस्यै घडघडघडं गर्जति मुहुः।।
(२)
महाचण्डी क्रोधाद् वमति नितरां सागरगणं
न तेन क्षेत्रं वा सदननिचयो वापि सरणी।
मृगा लोका नो वा जनपदततिर्वा वननदं
विलीयन्ते सर्वे कुटिलनयनीं तां नतिशतम्।।
(व्रजकिशोरः)
No comments:
Post a Comment