लाल बहादूर शास्त्रिमहोदयः कॉंग्रेसदलस्य राष्ट्रियसचिवपदे कार्यरतः आसीत्। तस्मिन् काले घटितः अयम् अविस्मरणीयः प्रसंगः।
शास्त्रिमहोदयस्य सचिवरूपेण मासिकवेतनम् आसीत् प्रतिमासं ६० रूप्यकाणि। तत् पूर्णं वेतनं सः पत्न्यै समर्पयति स्म। तेन धनेन सा परिवारस्य निर्वाहं करोति स्म। एकदा शास्त्रिणः कश्चन वयस्यः तस्मात् ऋणरूपेण ६० रुप्यकाणि ऐच्छत्। शास्त्रीमहोदयः अवदत्, " भोः! मम मासिकवेतनं तावदेव अस्ति। पुनः भवते कुतः धनं प्रयच्छामि?"
तदा तस्य धर्मपत्नी गृहात् ६० रुप्यकाणि आनीय तस्मै अददात्। शास्त्रिमहोदयः विस्मितः अभूत्। प्रतिगते वयस्ये सः पत्नीम् अपृच्छत् यत् एतद्धनं कुतः आनीतमिति। सा प्रत्यवोचत्, "भवता दीयमानात् वेतनात् प्रतिमासं ५ रुप्यकाणि रक्षामि। ततः एकवर्षस्य रक्षितधनमिदम्।"
तस्मिन्नेव दिने शास्त्रिमहोदयः कार्यालयं गत्वा दलाध्यक्षाय पत्रम् अयच्छत् यत्र लिखितमासीत्, "अग्रिममासात् आरभ्य मम मासिकवेतनं ५५ रुप्यकाणि करोतु यतो हि मम परिवारस्य निर्वाहार्थं तावत् धनं पर्याप्तम् अस्ति" इति।
अहो श्रेष्ठत्वम् महापुरुषस्यास्य। धन्यः सः युगपुरुषः।
अद्य तस्य जन्मदिने सादरं प्रणतिः। 🙏💐🙏
No comments:
Post a Comment