Sunday, December 3, 2017

Clock of pallavans -Sanskrit

पल्लवानां घटीयन्त्रम्

अहं बाल्यात्प्रभृति परमाचार्यस्वामिनं दर्शयामि। विद्यापरिसमाप्त्यनन्तरं पुरातत्वशास्त्रविदो भूत्वा एकवारं स्वामिदर्शनार्थगमम्। स्वामिनः मां" तव वृत्तिः का"? इति अपृच्छन्।

" अस्माकं देवालयेषु पुरावस्त्वध्ययनं करोमि"।

"यदा कदा महाबलिपुरं गम्यते किम्?" तत्र त्वया
 परिशीलिता विषयाः के सन्तीति मां भणतु।"

"तत्र पाणडवानां रथः, महिषासुरमर्दिनी इत्यदयो विषयाः मया दृष्टाः" इति मया उच्यते। 

"तत्र पल्लवानां कालमापकयन्त्रमपि वर्तते। तत् दृश्यते वा"?

स्वामिनः मया हास्यभाषणं कुर्वन्तीति मत्वा एवं अपृच्छम्।" स्वामिन्! तस्मिन् काले पल्लवानां निकटे कालमापकयन्त्राणि कथमभवम्?"

" वर्तन्ते, तत्र वर्तते... वर्तते... पुनःतत्र यदा गमिष्यति तदा तत् द्दष्टुं प्रयतिष्यतु" इति सुदृढतया अकथयन्।

अनन्तरकाले पुनःतेषां दर्शनसमये ते मां अपृच्छन्" "घटीयन्त्रं लक्ष्यते वा"? इति। 

नहि स्वामिन्! कुत्र द्रष्टव्यमिति न ज्ञायते" इति अवदम्।

" अर्जुनतपः दृश्यते वा"?

"द्रष्टः"

" तत्र अर्जुनतपःश्शिलायाः अधो भागे एका प्रवहमाणा नदी वर्तते। तस्याः सन्निकटे एकः ऋषिः उपविष्टो भवति।ततः अधोभागे एव केचन वेदाध्ययनं कुर्वन्ति। एक व्यक्तिः वस्त्रनिष्पीडनं करोति। अन्यः माध्याह्निकं करोति। कश्चन माध्याह्निकाङ्गे द्वयोःहस्तयोः अङ्गुलीनां मध्ये दृश्यमानं  सूर्यं पश्यति। तत्र शिल्पिना विज्ञापितविषयः एवमस्ति  मध्याह्ने द्वादशघण्टा समयः तस्मिन् समयेभवतीति । किमत्युक्ते माध्याह्निकविधिसमयः तदेव। तदर्थमेव मया पल्लवानां घटीयन्त्रमित्युच्यते"।

तं श्रुत्वा अहं निश्चेष्टः अभवम्। "शंकर! क एषां स्वामिनां असाधारणपरिशीलनादृष्टिः?

    जय जय शंकर ! हर हर शंकर!

           -डा. सत्यमूर्तिः, प्रमुखपुरातत्ववेत्ता

              --कंचिपरमाचार्यवैभवात् स्वीकृत्य अनूदितं मया🙏🙌

                    बाला...✍

No comments:

Post a Comment