तिरुप्पावै-------पाशुरम्---२१-
तमिळम्-"एत्तकलङ्गळ् एदिर् पोङ्गि मीदळिप्प,मात्तादे पाल् शोरियुम् वळ्ळल् पेरुम् पशुक्कळ्
आत्तप्पडैत्तान् मगने! अऱिवुराय्;ऊत्तमुडैयाय्! पेरियाय्! उलगिनिल्
तोत्तमाय् निन्र शुडरे तुयिलेळाय्, मातारुनक्कु वलितुलैन्दुन् वाशऱ्कण्
आत्तादु वन्दु न्नडिपणियुमापोले पोत्तियाम् वन्दोम् पुगळ् न्देलोरेम्बावाय्॥'
संस्कृतम्-श्लो।"उत्क्षिप्तपूर्
धेनूरुदारमहिताः परिपातियोऽस्य पुत्र ! प्रजागृहिसमाश्रितपक्षपातिन्॥
सर्वाधिकावनितले त्ववतीर्णतेजः! उत्तिष्ठ दिव्यशयना दरयो जितास्ते।
त्वत्सौधचत्वरमुपेत्य यथा भृशार्ताः, श्रीमत्पदाम्बुरुहसेवनमाश्रयन्ते
तद्वद्वयं परिगताः परिकीर्तयन्त्यः आशासनम् तव मुदाऽनिशमङ्गळस्य।
ध्येयः फलं च करणं च भवान् हि कृष्ण! वृत्तं निसर्गमधुरं व्रतमस्मदीयम्॥
तात्पर्यम्:--पूर्वतनपाशुरे गोदादेवी नीळादेवीं प्राबोधयत्खलु। सा अद्य प्रबुध्य "अहमपि भवतीष्वेकैवे"त्युक्त्वा,"आगच्छ
सन्ति।ऊधस्य अधस्तात् कलशान् निक्षिपन्ति चेत् निरवच्छिन्नं धारापातेन क्षीरमागत्य कलश
परिधिमतिक्रम्य उच्चैः प्रवहति। विलम्बोऽस्ति चेत् कलशस्थापकानामेव भवति।न धेनूनां क्षीर
दाने।तादृशौदार्यगुणसम्पन्नाः तत्रत्याः गावः।एतादृशगवामधिनायको नन्दगोपः।अस्य कुमारो कृष्णः।प्रथमं नन्दगोपं गोसम्पन्न इति संस्तुत्य तस्य पुत्रं कृष्णमेवमुचुः,"गोसम्पन्नस्य नन्दस्य पुत्र ! अप्रमेय! बलशालिन्! लोकानुद्धर्तुकाम! तेजोमूर्तिन्! निद्रां विहाय शयनादुत्तिष्ठ।
भवतः शत्रवस्सर्वे भवता जिताः भवच्चरणौ यथा आश्रयन्ते तथैव वयमप्याश्रित्य भवते मङ्गळ
माशंसितुमागतवत्यः।कृपां विधेहि।"इति।
विशेषाः:---अत्र गावः आचार्याः। कलशाः शिष्याः।आश्रयणं (ऊधस्य अधस्तात्)कलशनिक्षेपणम्।
कलशोपरि क्षीरस्य अविच्छिन्नप्रवाहः अधीतविद्यानां शिष्याणामुन्मस्तकत्वम्।शत्रवो नाम ये देवं
देवस्य भक्तांश्च द्विषन्ति। लक्ष्मणः (रामेण) रामायणे "अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः"इति यथा रामस्य गुणान् दृष्ट्वा दास्यं कर्तुमागतवान् तथैवात्र सन्दर्भेऽपि गोदादेव्यादिगोपकन्याजनमपि श्रीकृष्णपरमात्मनः स्वामित्वसौशील्यादिगुणान् दृष्ट्वा कैङ्कर्यार्थमागतवत्य इति भणितम्।
No comments:
Post a Comment