Wednesday, August 24, 2016

जन्माष्टमि शुभाशया:

अम्ब सत्यतो नवनीतम् । न मया चोरितम् ।
सङ्गतैस्समैर्मे वदने नवनीतम् उपलिप्तम् ॥
पश्य भोस्तदीयं भाण्डं काममुपरि संस्थितम् ।
आहराणि कथमतिबालो लघुना करयुगलेन ॥
श्यामोऽभाषत नवनीताक्तं नैजवदनं परिऽमृजन् ।
हस्तमपि कलितनवनीतं पृष्ठतो विनिगूहन् ॥
मन्थमुद्धृतं सा गोपी प्रतिक्षिप्य विहसन्ती ।
सूरदासकान्तं श्यामं चुम्बित्वाऽलिलिङ्ग ॥
Courtesy: Sri.P.Ramakrishna
हे कृष्ण ! किं जीवनं त्वां विना ।
नाहं सहेय एनं विरहम् ॥
कमलविरहिता सरसी नूनम्
विधुना रहिता क्षणदा चाहम् ।
तपनातिशयान्नीता रजनी
स्थगितं वचनं गल एव शुचा ॥१॥
अन्नं न रोचते निद्रा तु विस्मृता
रोदिमि मनसा कृष्णेति सदा ।
को नु निबोधति मामकतमनं
ताम्यति विकलं दासीहृदयम् ॥२॥
अन्तरवस्थित गिरिधर एहि !
पुरतो विलसन् दर्शय रूपम् ।
जननान्तरजं प्रेम मदीयम्
त्वयि वहनं ननु तस्य विधेयम् ॥३॥

No comments:

Post a Comment