Courtesy: Sri.Bryan Hill
The aitareya – upanishhad is a part of the aitareya – AraNyaka of AshvalAyana shAkhA of R^igveda. adhyAya 2 & 3 of this AraNyaka constitute aitareya – upanishhad. mahidAsa aitareya, who is an Incarnation of Lord vishhNu is the devatA as well as the R^ishhi for this upanishhad. ramAdevI and chaturmukha – brahma are also R^ishhis for the same. The name of mahidAsa conveys that great personalities like ramA, brahma, etc., are His (vishhNu) dAsas.
aitareya - upanishhad 2.6.1 - 2:
हरिः ॐ । कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येनवा वाचं व्याकरोति येन च स्वादु चास्वादु च विजानाति यदेतद्धृदयं मनश्चैतत् संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामोऽवश इति सर्वाण्यैवेतानि प्रज्ञानस्य नामधेयानि भवन्ति ।
" How shall we meditate upon Atman i.e., the Supreme God ? He has infinite bliss. Directed by Him only one sees, hears, smells, speaks, taste the tasty and untasty. He is hR^idaya, manas, chaH, A, etat, saMjJNAna, AjJNAna, vijJNAna, prajJNAna, medhA, dR^ishhTi, dhR^iti, mati, manIshhA, jUti, smR^iti, saMkalpa, kratu, asu, kAma and avasha. All these are the names of the Supreme God which convey His different attributes. "
Explanation:
(1) Here it is stated that the Supreme Lord directs all activities of man. 23 different names of the Supreme that convey His attributes relevant in the context are also mentioned here:
(२) कः – किं लक्षणकः कतरः आनन्दतमः येन यत्प्रेरणया अयं रमाब्रह्मादिचेतनसमुदायः पश्यति शृणोति etc.
(३) विष्णोः लक्षणान्युक्त्वा उपासनार्थं नामान्याह यदित्यादिना – ज्ञातृत्वात् यत् सन्निहितत्वात् एतत् हृदयनात् हृदयम् मन्तृत्वात् मनः गुणोच्चयदातृत्वात् चः पूर्णत्वात् आ भक्तैः इतत्वात् ततत्वाच्च एतत् सम्यग् ज्ञानस्वरूपत्वात् संज्ञानम् आसमन्तात् सर्वविषयकज्ञानरूपत्वात् आज्ञानम् विविधज्ञानरूपत्वात् विज्ञानम् प्रकृष्ट स्वगुणज्ञानरूपत्वात् प्रज्यानम् अविस्मृतित्वान्एेधा दर्शनरूपत्वात् दृष्टिः धारणरूपत्वात् धृतिः मासु प्रमाणेषु ततत्वात् मतिः मनुनाम्नां ब्रह्मादीनाम् ईशः मनीषा सर्वप्रेरकत्वात् जूतिः सर्वरूपेषु समं रमत इति स्मृतिः सर्वस्य क्ॡप्तिरूपत्वात् संकल्पः सर्वकर्तृत्वात् क्रतुः दोषाणामसनादसुः अमितानन्दत्वात् कामः स्वतन्त्रत्वादवशः इत्येतानि सर्वाण्येव त्रयोविंशतिनामानि प्रज्ञानस्य प्रज्ञानरूपस्य भगवतः नामधेयानि भवन्ति ।
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि पञ्चमहाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च चारुज्ञानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषाः हस्तिनो यत्किञ्चेदं प्राणिजङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रोऽलोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्ताऽमृतः समभवत् समभवत् ॥
" He is brahman, He is indra, He is prajApati i.e., shiva. These daxa, etc., gods, the paJNcha - mahAbhUta, pR^ithivI, etc., the small and mixed beings, those other than the gods, i.e., humans, those other than gods and humans i.e., asuras etc., those that are born from eggs i.e., birds, those born from jarAyu i.e., humans, etc., those born from sweat i.e., insects etc., those born from seeds i.e., plantlife etc., similarly those that are born from the minds of the gods etc., viz., horses, cows, human beings, elephants, etc., whatever living beings, stones, wood, etc., moving, flying and immovable of various natures are, all these are led and supported by brahman.
The liberated are also led and supported by brahman. However, brahman is self - supported, He is of the nature of consciousness. He has no limitations of space, time or attributes.
The liberated will move out of his body by the grace of the Supreme God and will enjoy all desires. "
Explanation:
(1) Here it is pointed out that brahman leads all beings. The benefits of the meditation upon the Supreme Lord with this knowledge are described:
(२) सर्वे देवाः दक्षादयः मिश्राणि – पुण्यपापमिश्रितानि इतराणि देवेभ्यो अन्यानि मानुषप्राणिजातानि इतराणि देवमानुषभिन्नानि असुरादि प्राणिजातानि ।
(३) देवादीनां मन आदि जाताः अश्वाः गावः पुरुषाः हस्तिनः* यत् किञ्चेदं प्राणिशिलाकाष्ठादिकम् बीजानि शाल्यादिबीजवत् भिन्नस्वभावानि । तदेतत् सर्वं प्रज्ञानेत्रम् – प्रज्ञात्मकं नेत्रं नेतृ यस्य तत् ।
(४) अलोकः – प्राकृतदेहशून्यः योऽयं मुक्तसमुदायः प्रज्ञाप्रज्ञारूपं ब्रह्म स्वयं च अनन्याश्रयत् प्रतिष्ठाशब्दवाच्यम् प्रज्ञानम् प्रज्ञानात्मको विष्णुः सः सकलकर्मबन्धात् मुक्तः अलोकशब्दोक्तः पुरुषः एतेन प्रज्ञेन प्रकृष्टज्ञानेन आत्मना विष्णुना प्रेरितः सन्नेव अस्मात् लोकात् चरमदेहात् उत्क्रम्य स्वर्गे लोके वैकुण्ठादौ अमृतः सन् सर्वान् कामान् समभवत् भुङ्क्ते ।
इति द्वितीयारण्यके षष्ठोऽध्यायः
* Same list of living beings occurs in the paspashAhNika in pataJNjali's mahAbhAshhya.
No comments:
Post a Comment