*श्रीरामायणकथा, सुन्दरकाण्डम्।*
(अष्टमः सर्गः)
सीतया सह हनुमतः मेलनम्।
पराक्रमी हनुमान् चिन्तनं करोति स्म यत् सीतायाः अन्वेषणं कुर्वन् अहं गुप्तरूपेण शत्रूणां शक्तिं सम्यग् अजानाम् अपिच रावणस्य प्रभावस्यापि सम्यग् निरीक्षणम् अकरवम्। यस्याः सीतायाः अन्वेषणं लक्षशः वानराः सर्वासु दिक्षु कुर्वन्ति, अद्य अहं तां प्रापम्। एषा शोकेन व्याकुला भवति अतः तस्यै सान्त्वनाप्रदानं हि उचितं भवेत्। परन्तु राक्षसीनाम् उपस्थितौ तया सह मम वार्तालापः उचितः न भवेत्। इदानीम् इयं समस्या अस्ति यत् कथमहम् एतत् कार्यं समापयेयम्!
यदि रात्र्यभ्यन्तरे सीतायै सान्त्वनां न दद्यां तर्हि सम्भवतः सा स्वीयान् प्राणान् त्यक्ष्यति। यदि केनापि कारणेन सीतया सह अहं मेलितुं न शक्नुयां तर्हि मम सर्वः परिश्रमः निष्फलः भवेत्। सीता अत्र उपस्थिता अस्ति इत्यस्य सूचनां श्रीरामचन्द्राय सुग्रीवाय च दद्यां चेदपि लाभः न भवेत्, यतः तस्याः दुःखं दुर्दशां च दृष्ट्वा वक्तुं न शक्यते यत् सा यदा कदापि निराशा भूत्वा स्वीयान् प्राणान् त्यक्तुं शक्नुयात्।
अतः एतदेव उचितं भवेत् यत् श्रीरामस्य गुणगानं तां श्रावयिष्यामि येन मयि तस्याः विश्वासः भवेत्।
इत्थं महावीरः हनुमान् सम्यग् विचार्य मन्दमन्दस्वरेण वदति स्म, इक्ष्वाकुकुले परमप्रतापी तेजस्वी यशस्वी विशालपृथिव्याः स्वामी चक्रवर्ती महाराजः दशरथः अभवत्। तस्य ज्येष्ठपुत्रः तस्मादपि अधिकः तेजस्वी परमपराक्रमी धर्मपरायणः सर्वगुणसम्पन्नः अतीव दयानिधिः श्रीरामचन्द्रः पितुराज्ञापालनाय तस्य कनिष्ठभ्रात्रा लक्ष्मणेन सह चतुर्दशवर्षाणां कृते वने वस्तुं वने वने भ्रमणं कुर्वन् चित्रकूटम् आगत्य निवसति स्म। तेन सह तस्य परमप्रिया पत्नी महाराजजनकस्य पुत्री सीता अपि आसीत्। वने श्रीरामचन्द्रः ऋषिमुनीन् तुदमानानां राक्षसानां संहारम् अकरोत्।
लक्ष्मणः यदा दुराचारिण्याः शूर्पणखायाः नासिकाकर्णौ अकर्तयत् तदा तस्य प्रतिशोधं नेतुं तस्याः भ्रातरौ खरदूषणौ युद्धं कर्तुम् आगच्छतां ययोः श्रीरामचन्द्रः संहारम् अकरोत् , तद् जनस्थानं च राक्षसविहीनम् अकरोत्। यदा लङ्कापतिः रावणः खरदूषणयोः मृत्योः सूचनां प्राप्नोत् तदा सः तस्य मित्रेण मारीचेन सह मिलित्वा छलेन जानकीम् अपहर्तुं तत्र अगच्छत्। मायावी मारीचः स्वर्णमृगस्य रूपम् अधरत् यं दृष्ट्वा जानकी मुग्धा अभवत्। सा राघवेन्द्रं प्रेरयति स्म यत् सः तं मृगं गृहीत्वा अथवा हत्वा आनयेत्।
दुष्टः मारीचः तस्य मृत्योः समये रामस्य स्वरेण हा सीते! हा लक्ष्मण! इति कृत्वा चीत्कारम् अकरोत् यस्मात् जानकी भ्रमे अपतत्, रामस्य साहाय्यार्थं च लक्ष्मणम् अप्रेषयत्। ततः लक्ष्मणस्य गमनात् परं रावणः छलेन सीताम् अपाहरत्। प्रत्यागत्य रामः यदा सीतां न प्राप्नोत् तदा वने वने भ्रमित्वा सीतायाः अन्वेषणं करोति स्म। इदानीमपि निरन्तरं तस्याः अन्वेषणं करोति। मार्गे वानरराजेन सुग्रीवेण सह तस्य मित्रता अभवत्।
*-प्रदीपः।*
No comments:
Post a Comment