*श्रीरामायणकथा, सुन्दरकाण्डम्।*
(सप्तमः सर्गः)
राक्षसीभिः वेष्टिता जनकनन्दिनी सीता।
(द्वितीयः खण्डः)
विकरालराक्षसीभिः इत्थं तर्जनेन देवकन्या सुन्दरी सीता धैर्यं त्यक्त्वा नितरां रोदिति स्म। विलापं कुर्वती वदति स्म हे भगवन्! इदानीम् एषा विपत्तिः मया न सह्यते। हे प्रभो! माम् अस्याः विपत्तेः त्रायस्व, अथवा माम् अस्याः पृथिव्याः नीत्वा गच्छ। महान्तः जनाः सत्यमेव वदन्ति यत् समयात् पूर्वं मृत्युः न भवति। अद्य मम कीदृशी दयनीया दशा अभूत्। कुत्र अयोध्यायाः राजप्रासादः यत्र अहं परिजनैः पत्या च सह अलौकिकं सुखं भुञ्जे स्म, कुत्र च एतत् कष्टकरं दिनं यद् अहं पत्युः विमुक्ता छलेन अपहृता एतेषां राक्षसानां बन्धने बद्धा भूत्वा निरीहहरिणीवद् महद् दुःखं प्राप्नोमि। जलेन विना मीनस्य या दशा भवति, अद्य अहमपि मम प्राणेश्वरं विना अत्यन्तं विषादं प्राप्नोमि। एतावतीं भयङ्करवेदनां प्राप्य अपि मम प्राणाः न गच्छन्ति।
आश्चर्यं यद् मर्मान्तकपीडां सोढ्वा अपि मम हृदयं खण्डं खण्डं न भवति। मादृशी अभागिनी का स्यात् या प्राणाधिकप्रियतमात् वियुक्ता भूत्वापि स्वप्राणान् रक्षित्वा उपविशति। इदानीमपि न जाने मम भाग्ये किं किं दुःखं लिखितमस्ति। न जाने सः दुष्टरावणः मम कीदृशीं दुर्गतिं कारयिष्यति। किमपि वा भवतु, अहं मम वामपादेनापि तस्य महापापिनः स्पर्शं न करिष्यामि, तस्य इङ्गितेन अहम् आत्मसमर्पणं कुर्याम् इति तु दूरे तिष्ठतु। एतद् मम दौर्भाग्यं यद् अहं कस्यचन परमप्रतापिनः वीरस्य भार्या भूत्वा अपि दुष्टरावणद्वारा लञ्छिता भवामि, सः च मां रक्षितुम् इदानीमपि न आगच्छति। मम भाग्यं हि विपरीतं स्यात्।
यदि परोपकारी जटायुराजः नीचरावणद्वारा न अम्रियत तर्हि सः अवश्यं राघवं मम सङ्केतम् असूचयिष्यत् , सः च रावणस्य विनाशं कृत्वा माम् इतः अमोचयिष्यत्। परन्तु मम मनः कथयति यद् एतस्य दुश्चरित्ररावणस्य पापं पूरयेत्। तस्य विनाशकालः दूरे नास्ति। सः अवश्यं मम पत्या म्रियेत। तस्य तीक्ष्णबाणः लम्पटराक्षसानाम् आधिपत्यात् लङ्कां मुक्त्वा मम उद्धारं करिष्यति।
तस्य प्रतीक्षां कुर्वती एतावद् दिनम् अयापयं किन्तु सः न आगच्छति। कुत्रचिद् एवं तु नास्ति यत् सः मां मृतां मत्वा मम अन्वेषणमपि न करोति? एवमपि भवितुम् अर्हेत् यद् दुष्टः मायावी रावणः मां यथा छलेन अपाहरत् तथा तयोः भ्रात्रोः अपि छलेन हननम् अकरोत्! तस्य दुष्टस्य कृते किमपि नीचकार्यम् अकरणीयं नास्ति। अतः उभयत्रापि मम जीवनस्य प्रयोजनं नास्ति।
यदि सः मां मृताम् अमन्यत अथवा दुष्टः रावणः तयोः वधम् अकरोत् तर्हि तु तेन सह मम मेलनं दुष्करं स्यात्। यदि अहं मम प्राणेश्वरेण सह मेलितुं न शक्नुयां तर्हि मम जीवनं व्यर्थम्। अहम् अचिरेण हि मम प्राणान् त्यक्ष्यामि।
सीतायाः तादृशं निराशाजनकं वचनं श्रुत्वा पवनपुत्रः हनुमान् मनसि विचारं करोति स्म यत् तस्याः वार्तायां कश्चिदपि सन्देहः नास्ति यद् एषा जनकनन्दिनी सीता नास्ति। एषा हि सीता अस्ति, या पतिवियोगात् अत्यन्तं व्याकुला अस्ति। अयमेव उचितसमयः यद् अस्मिन् समये हि तस्याः धैर्यस्य सर्वाधिकावश्यकता अस्ति।
*-प्रदीपः!*
No comments:
Post a Comment