*श्रीरामायणकथा, सुन्दरकाण्डम्!*
(प्रथमः सर्गः)
हनुमतः समुद्रलङ्घनम्।
(द्वितीयः खण्डः)
सुरसायाः वचनानि श्रुत्वा हनुमान् अवदत्, तव इच्छापूर्तये मम काचिदपि आपत्तिः नास्ति, किन्तु अस्मिन् समये अहम् अयोध्यायाः राजकुमारस्य रामचन्द्रस्य कार्यार्थं गच्छामि। तस्य पत्नीं सीतां रावणः चोरयित्वा लङ्कां प्रति अनयत्। अहं तस्याः अन्वेषणाय गच्छामि। त्वमपि श्रीरामस्य राज्ये निवससि, अतः मम अस्मिन् कार्ये तवापि साहाय्यम् आवश्यकम् अस्ति। तव च कर्तव्यम् अस्ति। मम कार्यं साद्ध्वा यदा लङ्कातः प्रत्यागमिष्यामि, तदा अवश्यं तव मुखे प्रवेक्ष्यामि। एतद् वचनम् अहं तुभ्यं ददामि।
हनुमतः प्रतिज्ञावचनम् अश्रुत्वा हि सुरसा अवदत्, यावत् त्वं मम मुखे न प्रवेक्ष्यसि तावद् अहं तव मार्गात् न गमिष्यामि। ब्रह्मदेवः मह्यं वरदानम् अददात् यद् मम मुखे प्रवेशं विना त्वम् इतः गन्तुं न शक्ष्यसि। एतत् श्रुत्वा हनुमान् अब्रवीत् अस्तु तर्हि! तव मुखं प्रसार्य मां गिर, अहं तव मुखे प्रवेष्टुं सज्जः अस्मि। एवमुक्त्वा हि महाबली हनुमान् योगशक्त्या स्वीयं शरीरं दशयोजनमितं प्रसारितम् अकरोत्। सुरसा अपि अपू्र्वशक्तिसम्पन्ना आसीत्। सा अपि तत्क्षणं हि तस्याः मुखं विंशतियोजनमितं प्रसारितम् अकरोत्। हनुमान् तदा तत्क्षणात् अत्यन्तं लघ्वाकारं धृत्वा तस्याः मुखं प्रविश्य पुनः बहिः आगत्य अवदत् हे सुरसे!तव इच्छा पूर्णा अभवत्! प्रणामः! एतावद् उक्त्वा हनुमान् पुनः आकाशे डयित्वा अगच्छत्।
पवनसुतः हनुमान् किञ्चिद् अग्रे यदा अगच्छत् तदा राक्षसी सिंहिका तम् अपश्यत्। सा च हनुमन्तं खादितुं लालायिता अभवत्। सा छायाग्रहणविद्यायां पारङ्गता आसीत्। यस्य कस्यापि प्राणिनः छायां यदि सा गृह्णाति तर्हि सः तस्याः राक्षस्याः हस्ते बद्धः भवति। यदा सा हनुमतः छायाम् अगृह्णात् तदा तस्य गतिः रुद्धा अभवत्। सः आश्चर्येण सिंहिकां प्रति अपश्यत्। सः अवागच्छत्, सुग्रीवः यस्य अद्भुतछायाग्राहिप्राणिनः वार्तां करोति स्म, सम्भवतः एषा हि सा राक्षसी अस्ति।
एवं विचिन्त्य हनुमान् योगबलेन तस्य शरीरं मेघवद् अत्यन्तं विशालम् अकरोत्। राक्षसी सिंहिंका अपि तदानीं तस्याः मुखम् आकाशतः पातालं यावत् विस्तृतं कृत्वा गर्जनं कुर्वती हनुमन्तं ग्रहीतुम् अधावत्। एवं दृष्ट्वा हनुमान् तत्क्षणात् स्वयम् अत्यन्तं लघु रूपं धृत्वा तस्याः मुखे प्रविश्य तस्य तीक्ष्णनखैः राक्षस्याः मर्मस्थानम् अच्छिनत्।
ततः परं सः अत्यन्तं स्फूर्त्या राक्षस्याः मुखात् बहिः आगत्य आकाशं प्रति अगच्छत्। राक्षसी तदा क्षतविक्षता भूत्वा समुद्रे पतित्वा अम्रियत।
*-प्रदीपः!*
No comments:
Post a Comment