Friday, December 20, 2024

Police & thief - Mind - Sanskrit story

''बोधकथा'' [गुरूणां कथा] 
एका गृहिणी स्वबालकेन सह विपणितः गच्छति स्म | तदा केचन सैनिकाः चौरं गृहीत्वा नयति स्म | बालक स्वमातरम् अपृच्छत्,' कः सः? किमर्थं भटाः तां नयति ? तदा माता उक्तवती- सः चौरः अस्ति | अन्येषां धनं हरति, एतस्मिन् कारणेन- भटाः तं गृहीतवन्तः, इदानीं तं दण्डयित्वा कारागृहे प्रेषयिष्यति| 
अग्रे गमनान्तरं तस्याः नगर्याः राजा आगच्छति स्म | राज्ञः परितोपि भटाः आसीत् | तस्मिन्नेवक्षणे बालकेन् स्वमातरं पृष्टं- 'माता पश्यतु एकअन्यः चौरः आगतः, तदा माता उक्तवती-शनैः वद ! अन्यथा भटाः आवां ताडयिष्यन्ति | सः राजा अस्ति | बालकेन् पृष्टम् – कोभेदोस्ति ? चोरस्य परितः भटाः सन्ति, तथैव राज्ञः परितोपि भटाः सन्ति | 
माता बालकम् उक्तवती- 'पृथ्वीस्वर्गर्यौ मध्ये यः भेदोऽस्ति तद् भेदं अत्रैव| चौरस्य परितः ये भटाः सन्ति तेषां नियन्त्रणे सः चौरः अस्ति, किन्तु राज्ञः परितः ये भटाः सन्ति ते राज्ञः अधीनस्थः सन्ति | चौरः किमपि कर्तुम् असमर्थः | तं किमपि स्वातन्त्र्यं नास्ति किन्तु राजानं स्वातन्त्र्यम् अस्ति | राजा यद् वदति ते भटानां बन्धनकारकं, यत्र राजा गच्छति तत्र-तत्र भटाः अगच्छन् | राजा एकाकी स्थातुं इच्छति तर्हि सर्वेः भटाः तत्रतः निर्गच्छन्ति | राजा मुक्तोऽस्ति | राजा यद् आज्ञा दियते तद् भटानां कृते बन्धनकारकम् | 
एषा कथा अस्मान किं बोधयति ? 
''स्वमन, स्वभावना, स्वविकारं भटाः सन्ति यदि वयं तेषां नियन्त्रणे तर्हि वयं 'चौरः' च किन्तु यदि स्वमन,स्वभावना, स्वविकारं अस्माकम् अधीनस्थः तर्हि वयं 'राजा' भविष्यामः | 
चयनं यूयं करणीयम् | 
'' मन एव मनुष्याणां कारणं बन्धमोक्षयोः | बन्धाय विषयसंगि मोक्षे निर्विषयं स्मृतम् ''|| [ मैत्रायणी उप. ६-२४ ]| 
ॐॐॐॐॐ 
ङॉ. वर्षा प्रकाश टोणगांवकर 
पुणे / महाराष्ट्रम् 
-------------------

No comments:

Post a Comment