*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(एकादशः सर्गः)
हनुमते मुद्रिकाप्रदानम्।
(द्वितीयः खण्डः)
सेनापतेः प्रस्तावम् अङ्गीकृत्य आदौ ते विन्ध्याचलं प्राप्नुवन्। तत्रत्या गुहा, वनम्,पर्वतशिखरम् इत्यादिषु सीतायाः अन्वेषणम् अकुर्वन्, परन्तु ते जनकनन्दिनीं सीतां न प्राप्नुवन्। विन्ध्यपर्वतं परितः महान् देशः, अनेकगुहा, घनवनं चासीत् इत्यतः तेषु क्षेत्रेषु सीतायाः अन्वेषणे ते अत्यन्तं क्लेशं प्राप्नुवन्।
एवं प्रकारेण जानक्याः अन्वेषणाय सुग्रीवेण प्रदत्तः समयः समाप्तः अभवत्। सर्वे वानराः तदा पूर्णतः निराशाः अभवन्, सुग्रीवेण प्रदत्तस्य दण्डस्य विषये च ते चिन्तयित्वा अत्यन्तं भयभीताः अभवन्। तेषां नैराश्यं भयं च दृष्ट्वा महाबुद्धिमान् अङ्गदः अवदत्, भवतां नैराश्यस्य भीतेः च आवश्यकता नास्ति। यदि वयं सर्वे इदानीमपि प्रयत्नं कृत्वा जानक्याः अन्वेषणं कृत्वा तां प्राप्नुयाम, तर्हि अपि महाराजः सुग्रीवः प्रसन्नः भविष्यति।
कर्मणः फलम् अवश्यं लभ्यते, अतः खिन्नाः भूत्वा वयं प्रयत्नं त्यक्ष्यामः इति उचितं नास्ति।
राजकुमारस्य अङ्गदस्य वचनं श्रुत्वा सन्तुष्टाः सर्वे वानराः पुनः अत्यन्तम् उत्साहेन जानक्याः अन्वेषणम् कर्तुम् आरभन्त। तत्रत्ये अत्यन्तं भयङ्करे निर्जने वने न तु जलं प्राप्यते स्म,न च फलादिकं प्राप्यते स्म। मनुष्यस्य चिह्नमपि नासीत्। तत्र अन्वेषणकार्यम् अत्यन्तं कठिनम् आसीत्, वानराः च तत्र अतीव कष्टम् असहन्त।
सर्वे वानराः क्षुधातृष्णाभ्यां व्याकुलाः सन्तः इतस्ततः भ्रमन्ति स्म, तदा हि ते काञ्चन गुहाम् अपश्यन्। यद्यपि सा गुहा अत्यन्तम् अन्धकारयुक्ता आसीत् तथापि तस्यां गुहायां हंसः, क्रौंञ्चः, सारसः इत्यादयः पक्षिणः जले आर्द्रीभूत्वा विचरन्ति इति दृश्यते स्म। जलेन आर्द्रीभूतान् पक्षिणः दृष्ट्वा हनुमान् अनुमानम् अकरोत् यद् अवश्यं हि गुहायाः अन्तः जलम् अस्ति। हनुमतः उपदेशेन सर्वे वानराः तां गुहां प्राविशन्।
*-प्रदीपः!*
No comments:
Post a Comment