Monday, October 7, 2024

Srimad Ramayana Aranya kandam part 17 in sanskrit

*श्रीरामायणकथा, अरण्यकाण्डम्!*
(सप्तदशः सर्गः)
कबन्धवधः।

एवं प्रकारेण पक्षिराजाय जटायवे जलाञ्जलिं प्रदाय रामलक्ष्मणौ सीतायाः अन्वेषणाय दक्षिणदिशि अगच्छताम्। किञ्चिद् अग्रे गत्वा तौ एवं स्थानं प्राप्नुतां यत्र बहवः वृक्षाः लताः गुल्माः च आसन्। तत् स्थानम् अत्यन्तं दुर्गमम् आसीत्। तत् दुर्गमं स्थानम् अतिक्रम्य तौ क्रौंचारण्य-नामकं वनं प्राप्नुतां यद् वनं जनस्थानात् योजनत्रयमिते दूरे आसीत्। तद् वनमपि सघनम् आसीत्। सघनवृक्षाणां कारणतः सूर्यरश्मिः तस्मिन् वने न पतति स्म। तद् वनम् अत्यन्तम् अन्धकारमयम् आसीत्। परन्तु विविधवर्णानां पुष्पैः सुशोभितं तद् वनम् इति कारणतः अतीव सुन्दरं दृश्यते स्म।  

तस्मिन् वने अनेके पशुपक्षिणः निवसन्ति स्म। तस्मिन् वने तौ रामलक्ष्मणौ सीतायाः अन्वेषणं कुरुतः स्म, परन्तु तत्र तयोः लाभः नाभवत्। ततः च तौ अग्रे अगच्छताम्। तद् वनम् अतिक्रम्य तौ मतङ्गमुनेः आश्रमस्य समीपं प्राप्नुताम्। तद् वनमपि भयानकं हिंस्रपशुभिः  परिपूर्णम् आसीत्। अटित्वा अटित्वा तौ एवं कस्याश्चित् गिरिकन्दरायाः समीपम् अगच्छतां या कन्दरा पातालवद् गभीरा सर्वदा अन्धकारेण आवृता भवति स्म। 

तस्याः विशालकन्दरायाः  मुखे काचित् राक्षसी या अत्यन्तं मलिना आसीत्, तस्याः बृहत् उदरम्, महान्तः दन्ताः, केशाः च विकीर्णाः आसन्। तत्र सा मलिनमुखी विकरालराक्षसी उपविश्य अस्थि चर्वति स्म। रामं लक्ष्मणं च दृष्ट्वा सा अट्टहासं कुर्वती धावित्वा आगत्य तस्याः हस्ताभ्यां लक्ष्मणं गृहीत्वा अवदत् - आगच्छ! आवां रमणं कुर्याव! मम नाम अयोमुखी अस्ति। त्वाम् अहं मम पतिरूपेण प्रापम्। इदानीम् अहं तव भार्या अस्मि।

तस्याः राक्षस्याः कुचेष्टायै कुपितः भूत्वा लक्ष्मणः खड्गं निष्कास्य तस्याः राक्षस्याः नासिकां कर्णं स्तनं च अकर्तयत्। तस्मात् तस्याः शरीरात् रक्तं स्रवति स्म, सा च चीत्कारं कुर्वती ततः पलायत। 
अयोमुख्याः पलायनात् परं तौ उभावपि ततः किञ्चिद् अग्रे यदा अगच्छतां तदा वने अकस्मात् भयङ्करः झञ्झावातः प्रारब्धः! रामः तदा कञ्चन भयङ्करं शब्दम् अशृणोत् यस्य  गर्जनेन सम्पूर्णः वनप्रान्तः गुञ्जति स्म। 

सतर्कताम् अवलम्ब्य तौ उभावपि भ्रातरौ तस्यां दिशि अगच्छतां यस्यां दिशि भयङ्करनादः भवति स्म। किञ्चिद् दूरं यदा तौ अगच्छतां तदा गजवत् मस्तकरहितं विशालाकारं कबन्धराक्षसम् अपश्यताम्। तस्य ग्रीवा मस्तकं च न आस्ताम्। तस्य उदरे मुखम् आसीत्, वक्षःस्थले च तस्य ललाटम् आसीत्। अपिच अङ्गारवत् ज्वलत् तस्य एकमेव नेत्रम् आसीत्।
सः तस्य हस्ताभ्यां पशून् गृहीत्वा मार्गं रुद्ध्वा तिष्ठति स्म।

रामलक्ष्मणौ दृष्ट्वा सः युगपत् तौ उभावपि गृहीत्वा अवदत् , महता भाग्येन अद्याहं उत्तमं भोजनं प्रापम्। युवां खादित्वा अहं मम क्षुधां शमयिष्यामि।
राक्षसद्वारा आकस्मिकाक्रमणात्  लक्ष्मणः किंकर्तव्यविमूढ़ः अभवत्, परन्तु रामचन्द्रः अत्यन्तम् उत्साहेन तस्य राक्षसस्य दक्षिणबाहुं खड्गेन अकर्तयत्। लक्ष्मणोऽपि तदा तस्य वामहस्तम् अकर्तयत्।
*-प्रदीपः!*

No comments:

Post a Comment