Saturday, October 5, 2024

Srimad Ramayana Aranya kandam part 15a in sanskrit

*श्रीरामायणकथा, अरण्यकाण्डम्!*
(पञ्चदशः सर्गः)
श्रीरामस्य प्रत्यागमनं विलापः च। 
(द्वितीयः खण्डः)

इत्थं सीतायाः विषये नानाप्रकारवृक्षान् पृष्ट्वा पृष्ट्वा रामचन्द्रः विलापं करोति स्म, हे प्राणवल्लभे जानकि! त्वं कुत्र निलीय असि? यदि त्वं वृक्षेषु निलीय हससि तर्हि त्वां प्रार्थये यत् त्वं शीघ्रं मम पुरतः आगच्छ! पश्य! अहं त्वां विना कियान् व्याकुलः अस्मि। इदानीं बहु हसनम् अभूत्, अहं पराजयं स्वीकरोमि। अहं त्वाम् अन्विष्य न प्राप्नोमि। अथवा त्वं मह्यं कुप्यसि! हा सीते! कथय, शीघ्रं कथय, त्वं कुत्र असि? अत्र पश्य! त्वया सह क्रीडन् मृगशावकोऽपि तव वियोगात् अश्रूणि प्रवाहयति!

हे सीते! त्वां विना अहं जीवितुं न शक्नोमि। अहम् इच्छामि यद् इदानीमेव तव वियोगात् मम प्राणान् त्यजेयम्, किन्तु पितुः आज्ञया अहं विवशः अस्मि। स्वर्गे मां प्राप्य सः मां द्यास्यति, वदिष्यति च, त्वं मम आज्ञायाः अवहेलनं कृत्वा चतुर्दशवर्षाणां  वनवासस्य अवधिम् अपूरयित्वा हि कथं त्वं स्वर्गम् आगच्छः? आम्, अहं कियान् दुर्भगः अस्मि यत् तव विरहे अहं मर्तुमपि न शक्नोमि। हे जानकि! त्वं हि कथय, त्वां विना अहं किं कुर्याम्? 

अग्रजस्य विलापं दृष्ट्वा लक्ष्मणः तस्मै सान्त्वनां प्रयच्छन् अवदत् हे नरोत्तम! रुदनेन अधैर्येण च कश्चिदपि लाभः न भवेत्। आगच्छतु! आश्रमात् बहिः गत्वा वनेषु गिरिकन्दरासु च भ्रातृजायायाः अन्वेषणं कुर्याव। वनेषु पर्वतेषु च भ्रमणं तस्यै रोचते स्म। एतदपि सम्भवेत् यत् सा तत्र कुत्रापि भ्रमणं कुर्यात्। तदपि सम्भवेत् यत् सा गोदावरीनद्याः तटे उपविश्य मत्स्यानां जलक्रीडां पश्येत्, अथवा कस्यापि भयस्य आशङ्कया भीता भूत्वा कुत्रचिद् लतासु निलीय उपविशेत्। अतः आवयोः कृते एतदेव उचितं यद् आवां विषादं चिन्तनं च त्यक्त्वा तस्याः अन्वेषणं कुर्याव।

लक्ष्मणस्य युक्तियुक्तं वचनं श्रुत्वा रामः लक्ष्मणेन सह गत्वा वनेषु लतासु, गिरिकन्दरासु च तस्याः अन्वेषणम् अकरोत्। तौ उभावपि सर्वत्र सीतायाः अन्वेषणम् अकुरुताम्, परन्तु सीता न प्राप्ता।  
अन्ते रामः निराशः सन् अवदत् हे सौमित्र! अत्र तु एवं किञ्चिदपि स्थानम् अवशिष्टं नास्ति यत्र आवां सीतायाः अन्वेषणं न अकुर्व, परन्तु सीता कुत्रचिदपि न अदृश्यत।

इदानीम् एवं प्रतीयते यत् सीता पुनः कदापि न प्राप्येत। अहं वनवासस्य अवधिं पूरयित्वा यदा अयोध्यां गमिष्यामि तदा माता कौशल्या प्रक्ष्यति यत् सीता कुत्र! तदा अहं तस्यै किम् उत्तरं दास्यामि? मिथिलापतिं जनकं कथमहं मम मुखं दर्शयिष्यामि? 
एवं विचिन्त्य रामः उच्चैः विलापं करोति स्म, हे सीते! अहं त्वां कुत्र अन्विष्यामि?
हे वनस्य मृगाः! किं यूयं कुत्रचिद् मम मृगनयनीं सीताम् अपश्यत? हे वनस्य कोकिलाः! किं यूयं कुत्रचिद् मम  कोकिलाकण्ठीं जानकीम् अपश्यत? अरे! कश्चित् तु किमपि वदतु। किं सर्वे मत्कृते  निर्मोहाः अभवन्? कश्चिदपि न वदति, कश्चिदपि मया सह वार्तालापं कर्तुं नेच्छति। अहं कापुरुषः अस्मि यत् अहं मम भार्यायाः रक्षणं कर्तुं न अशक्नवम्।

किञ्चित् कालं यावत् मौनेन स्थित्वा रामः अनन्तरं पुनः लक्ष्मणम् अब्रवीत् हे सौमित्र! सीतया विना अहं कमपि मम मुखं दर्शयितुं न शक्नोमि। वनवासस्य अवधेः पूरणात् परम् अहम् अयोध्यां न गमिष्यामि। त्वम् इदानीमेव अयोध्याम् अपगच्छ। तत्र गत्वा त्वं भरतं कथय यत् सः राज्यं पालयेत्। अहं कदापि अयोध्यां न अपगच्छामि। मातरं कौशल्यां कथय यत् सीतायाः अपहरणम् अभवत्, अतः तस्याः विरहव्यथां सोढुम् अशक्तः रामः आत्महत्याम् अकरोत्।

इदानीं तव गमनात् परम् अहं गोदावरीनद्याः जले निमज्ज्य स्वीयान् प्राणान् त्यक्ष्यामि। अस्मिन् संसारे अहमेव महान् पापी अस्मि, यतः पुनः पुनः मम दुःखं भवति। प्रथमं पितुः स्वर्गवासः अभवत्, इदानीं सीता अपि मां त्यक्त्वा न जाने कुत्र अगच्छत्। गृहं, राजप्रासादः, सम्बन्धिनः च तु पूर्वं हि मां त्यक्त्वा अगच्छन्। 

 मम तु वारं वारं तदेव चिन्तनं भवति यत् सीता राक्षसानां मायाजाले बद्धा अभवत्। सा अपि रुदित्वा रुदित्वा स्वीयान् प्राणान् त्यक्ष्यति। हे लक्ष्मण! त्वं तु कथयसि यत् सा वनम् अथवा गोदावरीनद्याः तटं गच्छेत्। एतत्तु केवलं मम सान्त्वनायै त्वम् अवदः।  या वनवासस्य एतावन्तं दीर्घकालं यावत् एकवारमपि एकाकिनी आश्रमात् बहिः न अगच्छत् सा अद्य कथं बहिः गन्तुं शक्नुयात्?

अवश्यं हि राक्षसाः ताम् अपहृत्य अनयन्, अथवा तां ते अखादन्। एतैः वृक्षैः पशुभिः च सह मम एतावत् सामीप्यं वर्तते चेदपि कश्चिदपि मम सीतायाः विषये न वदति। हा सीते! हा प्राणवल्लभे! त्वं हि कथय यत् त्वाम् अहं कुत्र अन्विष्यामि? कुत्र गत्वा अन्विष्यामि? 
*-प्रदीपः!*

No comments:

Post a Comment