*श्रीरामायणकथा, बालकाण्डम्।*
(त्रयोविंशतितमो भागः)
ऋषेः परशुरामस्य आगमनम्। (द्वितीयः खण्डः)
द्वितीयं दिव्यं धनुः मत्समीपे अस्ति।
एतद् धनुः भगवतः विष्णोः आसीत्।
एतदपि धनुः पिनाकवत् शक्तिशालि अस्ति। एकदा विष्णुशिवयोः मध्ये भयङ्करं युद्धम् अभवत्।
तयोः मध्ये विष्णुः श्रेष्ठः इति मत्वा देवाः तं विष्णुम् अशमयन्। शान्तः भूत्वा भगवान् विष्णुः भृगुवंशस्य ऋचीकमुनये तद् धनुः अददात्। अहं मम पूर्वपुरुषेभ्यः एतद् धनुः अलभे।
त्वं क्षत्रियः असि, अतः एतद् धनुः गृहीत्वा एतस्मिन् धनुषि बाणं संयोजय। यदि सफलः भविष्यसि तर्हि मया सह द्वन्द्वयुद्धं कुर्याः।
एवं प्रकारेण वारं वारं प्रत्याह्वानं कुर्वन्तं परशुरामं दृष्ट्वा रामचन्द्रः अवदत् हे भार्गव! अहं भवन्तं ब्राह्मणं मत्वा भवतः सम्मानं करोमि, अपिच कमपि विशेषं न वदामि। परन्तु भवान् मम विनयशीलतां पराक्रमहीनतां कापुरुषतां च मन्यते। अपिच मम तिरस्कारं करोति।
अस्तु ददातु! धनुः बाणं च मह्यं ददातु।
एवमुक्त्वा रामः ऋषेः परशुरामस्य हस्तात् धनुः बाणं च गृहीत्वा तस्मिन् धनुषि बाणं संयोज्य अवदत् हे भृगुनन्दन! भवान् ब्राह्मणः इति कारणतः भवान् मम पूज्यः अस्ति। अतः एतं बाणम् अहं भवति क्षेप्तुं न शक्नोमि। परन्तु धनुषि संयोजितः बाणः निष्फलः न भवेत्। तस्य प्रयोगः अनिवार्यः भवेत्। कुत्रचित् तस्य प्रयोगः करणीयः एव।
अतः हे भार्गव! अहं एतं बाणं क्षिप्त्वा भवतः शीघ्रतापूर्वकं सर्वत्र आगमनस्य निर्गमनस्य च या शक्तिः अस्ति तां शक्तिं नाशयामि।
श्रीरामस्य वचनं श्रुत्वा शक्तिहीनः सन् परशुरामः विनयपूर्वकम् अवदत् हे राम! बाणस्य क्षेपणात् पूर्वं मम वार्तां शृणु!
अहं क्षत्रियान् हत्वा अनन्तरम् इमां भूमिं दानरूपेण कश्यपाय अयच्छम्। तत्समये सः माम् अवदत् यत् त्वं इदानीं पृथिव्यां न तिष्ठेः यतः त्वम् अस्याः पृथिव्याः दानम् अकरोः।
तदारभ्य अहं गुरुवरस्य कश्यपस्य आज्ञां पालयन् कदापि रात्रौ पृथिव्यां न तिष्ठामि।
अतः हे राम! कृपां कुरु यद् मम गमनशक्तिः नष्टा न भवेत्। मनसः वेगः यथा तीव्रः भवति तेन वेगेन महेन्द्रपर्वतं गच्छामि। अहं जानामि यद् अयं बाणः निष्फलः न भवेत्, अतः त्वम् एतेन बाणेन मम सर्वं पुण्यं नष्टीकुर्यात् यत् पुण्यम् अहं तपसा सम्पादितवान्।
त्वम् अतीव सरलतया धनुषि बाणं समयोजयः, एतेन मम विश्वासः अभवत् यत् त्वं साधारणः न, अपितु मधुराक्षसस्य संहारं कुर्वाणः साक्षात् विष्णुः असि।
रामः परशुरामस्य प्रार्थनां स्व्यकरोत्, तेन बाणेन च परशुरामेण अर्जितं सर्वं पुण्यलोकं नष्ट्यकरोत्। ततः परं परशुरामः पुनः तपस्यां कर्तुं महेन्द्रपर्वतम् अगच्छत्। तत्र स्थिताः सर्वे ऋषि-मुनयः राजा दशरथः च श्रीरामस्य भूरि भूरि प्रशंसाम् अकुर्वन्।
*-प्रदीपः!*
No comments:
Post a Comment