।।श्रृङ्गाद्रिवासा पञ्चकम्।।
नमः चक्रमध्यस्थविद्यास्वरूपे
नमस्तेऽम्बिके ब्रह्मज्ञानस्वरुपे ।
नमस्ते सुरेशार्यसम्पूज्यपादे
नमः शारदे वाणि श्रृङ्गाद्रिवासे ।। 1
नमस्ते शरण्ये शरच्चन्द्रगात्रे
नमस्ते वरेण्ये मरालेऽधिरूढे ।
नमस्ते सुमाणिक्यभूषादिशोभे
नमः शारदे वाणि श्रृङ्गाद्रिवासे ।। 2
नमस्तुङगभद्रानदीतीरवासे
नमः स्तूयमाने सुरैर्पूज्यपादे ।
नमस्ते सदा सन्मुनीन्द्रादिवन्द्ये
नमः शारदे वाणि श्रृङ्गाद्रिवासे ।। 3
नमस्ते सुधापूर्णकुम्भाभिशोभे
नमः पद्महस्तेसुविद्याविभूषे ।
नमः पद्ममालाधरे सुप्रसन्ने
नमः शारदे वाणि श्रृङ्गाद्रिवासे ।। 4
नमः श्वेतपद्मासनस्थे सुसौम्ये
नमः शुभ्रवस्त्रावृते चारुरूपे ।
नमस्ते विनिद्रे स्वभक्तैकचित्ते
नमः शारदे वाणि श्रृङ्गाद्रिवासे ।। 5
🙏🏾Pālāmadai Ananthasubramanian 🙏🏾
No comments:
Post a Comment