*स्वामिविवेकानन्दस्य स्मारकशिला, कन्याकुमारी 🛕*
दिसम्बरमासस्य पञ्चविंशतिदिनाङ्के १८९२ तमे वर्षे स्वामी विवेकानन्दः कन्याकुमारीतः पञ्चशतमीटरमिते दूरे (५००मीटर) समुद्रस्य मध्ये तीर्त्वा एकं द्वीपम् अगच्छत्।
तस्मिन् द्वीपे सः दिनत्रयं यावत् मातुः भारत्याः उपासनां साधनां च अकरोत्।
१९७० तमे वर्षे औपचारिकरूपेण तस्मिन् द्वीपे एकस्य स्मारकस्य उद्घाटनम् अभवत्। वर्तमाने स्वामिविवेकानन्द-स्मारकशिला इति नाम्ना प्रसिद्धा।
तस्य स्मारकस्य निर्माणे राष्ट्रीयस्वयंसेवकसङ्घस्य तत्कालीनसरकार्यवाहः एकनाथः रानाडेमहोदयः तमिलनाडुराज्यस्य प्रान्तप्रचारकः दत्ताजी दिदोलकरः च तयोः प्रमुखभूमिका आसीत्।
क्रिस्तमतावलम्बिनाम् अतीव विरोधे सत्यपि एकनाथः रानाडेमहोदयः देशस्य ३२३ सांसदानां हस्ताक्षरं नीत्वा तस्य स्मारकस्य निर्माणम् अकारयत्।
*-प्रदीपः!*
No comments:
Post a Comment